________________
स्वसमय वक्तव्यताधिकारः
मद्याङ्गेषु समुदितेषु मदशक्तिवदिति । तथा न भूतव्यतिरिक्तं चैतन्यं तत्कार्य्यत्वाद्, घटादिवदिति । तदेवं भूतव्यतिरिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्ति: जलस्य बुद्बुदाभिव्यक्तिवदिति केषाञ्चिल्लोकायतिकानामाकाशस्याऽपि भूतत्वेनाभ्युपगमाद्भूत पञ्चकोपन्यासो न दोषायेति । न नु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते कथंतर्हिमृत इति व्यपदेश इत्याशङ्कयाह- अथैषां कायाकार परिणतौ चैतन्याभिव्यक्तौ सत्यां तदूर्ध्वं तेषामन्यतमस्यविनाशेऽपगमे वायोस्तेजसश्चोभयो र्वा देहिनो देवदत्ताख्यस्य विनाशोऽपगमो भवति, ततश्च मृतइति व्यपदेशः प्रवर्तते न पुनर्जीवापगम इति भूताव्यतिरिक्त चैतन्यवादि पूर्वपक्षइति । अत्र प्रतिसमाधानार्थं निर्युक्तिकृदाह
." पञ्चण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो ||३३|| पञ्चानां पृथिव्यादीनां भूतानां संयोगे कायाकार परिणामे चैतन्यादिक आदिशब्दात् भाषा चङ्कमणादिकश्चगुणो न भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः दृष्टान्तस्त्वभ्यूह्यः सुलभत्वात्तस्य नोपादानम् ।
तत्रेदं चार्वाकः प्रष्टव्यः- -यदेतद्भूतानां संयोगे चैतन्य मभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातन्त्र्य ए॒वाहोस्वित् परस्परापेक्षया पारतन्त्र्य इति ? किंचात: ? । न तावत्स्वातन्त्र्ये, यत आह " अण्णगुणाणंचेति” [चैतन्यादन्ये गुणायेषां तान्यन्यगुणानि तथाहि - आधारकाठिन्यगुणापृथिवी, द्रवगुणाआपः, पक्तृगुणंतेजः, चलनगुणोवायुः, अवगाहदानगुणमाकाशमिति यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैक परिहांन्याऽन्येगुणश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि । 'च' शब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः चैतन्यगुणे साध्येपृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्योगुणः सिद्ध्यतीति । प्रयोगस्त्वत्र-भूतसमुदायः स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्योगुणोऽस्तीति साध्योधर्मः पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्य गुणानां समुदायस्तत्र तत्रा पूर्वगुणोत्पतिर्नभवतीति ) यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये 'वा न स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यं तदात्मगुणो भविष्यति न भूतानामिति ।। अस्मिन्नेव साध्येहेत्वन्तरमाह “पंचिदियठाणाणंत्ति; पञ्चं च तानि स्पर्शनरसनम्राण चक्षुः श्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि-अवकाशास्तेषां चैतन्यगुणाभावान्नभूतसमुदाये चैतन्यम् - इदमत्रहृदयं-लोकायतिकानां हि अपरास्यद्रष्टुरनम्भुपगमादिन्द्रियाण्येव द्रष्टृणि, तेषां चयानि स्थानानि उपादानकारणानि तेषामाचिद्रूपत्वान्न भूतसमुदाये ' चैतन्यमिति। इन्द्रियाणाञ्चामूनिस्थानानि, तद्यथा श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवीतदात्मकत्वात् चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात् एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्यवायुरिति । प्रयोगश्चात्रनेन्द्रियाण्युपलब्धिमन्ति, तेषामचेतन गुणारब्धत्वात्, यद्यदचेनगुणारब्धं तत्तदचेतनं यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभावएवसाधिनोभवति । पुनहेत्वरमाह-"ण अण्णमुणियं अण्णोत्ति" इहेन्द्रियाणि प्रत्येकभूतात्मकानि तान्येवापरस्य द्रष्टुरभावाद् द्रष्टृणि, तेषाञ्च प्रत्येकं स्वविषय ग्रहणादन्यविषये चाप्रवृत्तेर्नान्य दिन्द्रिय ज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पञ्चाऽपि विषया ज्ञाता इत्येवमात्मक: संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं तस्मादेकेनैव द्रष्ट्रा भवितव्यम्, तस्यैवच चैतन्यं न भूतसमुदायस्येति । प्रयोगः पुनरेवं-नभूतसमुदाये चैतन्यं तदारब्धेन्द्रियाणां प्रत्येकविषयग्रहित्वे सति संकलना प्रत्यायाभावात्, यदि पुनरन्यगृहीतमप्यन्योगृह्णीयाद् देवदत्तगृहीतं यज्ञदत्तेनाऽपि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननुच स्वातन्त्र्यपक्षेऽयं दोष:, यदापुनः परस्परसापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादविर्भवति, यथा किण्वोदकादिषुमद्याङ्गेषु समुदितेषु प्रत्येक मविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्यदोषस्यावकाश इति ? अत्रोत्तरंगा थोपात्तचशब्दाक्षिप्तमभिधियतेयत्तावदुक्तं यथा— भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते, तत्र विकल्पयामः किमसौ संयोग: संयोगिभ्यो भिन्न भिन्नो
11