SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् वा ? भिन्नश्चेत्षष्ठ भूतप्रसङ्गो, न चान्यत् पञ्चभूतव्यतिरिक्त संयोगाख्यभूतग्राहकं भवतां प्रमाणमस्तिप्रत्यक्षस्यैवैकस्याभ्युपगमात्, तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमे चतेनैव जीवस्याऽपिग्रहणमस्तु। अथ अभिन्नो भूतेभ्योसंयोगः, तत्राप्येतच्चिन्तनीयम्-किं भूतानि प्रत्येकं चेतनावन्त्य चेतनान्तिवा ? यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदास्य पञ्चप्रकारचैतन्यापत्तिः । अथाचितनानि, तत्र चोक्तोदोषो, नहि यद्यत्र प्रत्येकमविद्यमानं तत् तत्समुदाये भव दुपलभ्यते, सिकतासुतैलवदित्यादिना। यदप्यत्रोक्तं-यथामद्यङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तं, यतस्तत्र किण्वादिषुयाच यावती च शक्ति रुपलभ्यते, तथाहि-किण्वेबुभुक्षापनयनसामर्थ्यं भ्रमिजननसामर्थ्यञ्च, उदकाय तृऽपनयन सामर्थ्यमित्यादिनेति, भूतानाञ्च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्त दान्तिकयोरसाम्यम् । किञ्च-भूतचैतन्याभ्युपगमेमरणाभावो, हतकायेऽपि पृथिव्यादीनां भूतानां सद्भावात् । नैतदस्ति तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भाव इत्यशिक्षितस्योल्लापः, तथाहिमृतकायेशोफोपलब्धेर्न वायोरभावः, कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्नेरिति । अथ सूक्ष्मः कश्चिद् वायु विशेषोऽग्निर्वा ततोऽपगत इतिमतिरिति एवञ्च जीव एव नामान्त रेणाभ्युपगतो भवतीति, यत्किञ्चिदेतत् । तथान भूत समुदाय मात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धे । अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरिष्यते, तदपि न यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडत्वमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्य मानोनायं चैतन्याख्यो गुणो भूतानां भवितुमर्हति । समुपलभ्यते चायंशरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक् - "नपृथिव्यादिव्यतिरिक्तआत्माऽस्मि, तद्ग्राहकप्रमाणाभावान् प्रमाणञ्चात्रप्रत्यक्षमेवैकमित्यादि, तत्र प्रतिविधीयतेयत्तावदुक्तं प्रत्यक्ष मे वैकं प्रमाणं नानुमानादिक' मित्येतदनुपासितगुरोर्वचः तथाहि-अर्थाविसावादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थविसंवादकत्वाद्, अनुभूत प्रत्यक्ष व्यक्तिवत् न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वयंविदिताभिः परं व्यवहारयितुमयमीशः, तासां स्वसंविन्निष्ठत्वान्मूकत्वाच्च प्रत्यक्षस्य । तथानानुमानं प्रमाणमित्यनुमाने नैवानुमाननिरासं कुर्वंश्चार्वाकः कथंनोन्मत्तः स्याद? एवं ह्रसौ तदप्रमाण्यं प्रतिपादयेद् यथा-नानुमानं प्रमाणं विसंवादकत्वात्, अनुभूतानुमान व्यक्तिवदिति, एततच्चानुमानम्, अथ पर प्रसिद्धयैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा ? प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ? परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति चेत्, तदप्यसाम्प्रतं, यदि नामपरो मौढ्यादप्रमाणमेव प्रमाणामित्यध्यवस्यति, किं भवताऽतिनिपुणेनाऽपितेनैवासौ प्रतिपाद्यते ? योह्यज्ञोगुडमेव विषमिति मन्यते किं तस्य मारयितुकायेनाऽपि बुद्धिमता गुड एवदीप्यते ? तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यम् । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति ? नतावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पायंते, यतस्त्प्रत्यक्षं प्रवर्तमानं वातन्निषेध विदध्यान्निवर्तमानं वा ? न तावत्प्रवर्तमानं तस्याभावविषयत्वविरोधात् नाऽपिनिवर्तमानं,यतस्तत्त्वनाऽस्ति तेन च प्रतिपत्तिरित्यसंङ्गतं तथाहि-व्यापकविनिवृत्तौ व्याप्यस्याऽपि (वि) निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः सम्भाव्यते तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति ? तदेवं स्वर्गादेः प्रतिबेधं कुर्वता चावकिणाऽवश्यंप्रमाणान्तरमभ्युगतम्।तथाऽन्याभिप्रायविज्ञानभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम्, अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमति प्रसङ्गेन । तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति. तेनाऽऽत्मासेत्स्यति, किंपुनस्तदितिचेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत्, चक्षुरिन्द्रियं हिन साक्षादुपलभ्यते, स्पर्शनादीन्द्रिया साधारण रूपविज्ञानोत्पादन शक्त्यात्वनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारण 12)
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy