SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ वीरत्थई अध्ययन नाश से प्राणियों की रक्षा करते हैं, वे क्षत्रिय कहे जाते हैं । उन क्षत्रियों के मध्य दान्त वाक्य चक्रवर्ती प्रधान है जिसके वाक्य-धाक से ही शत्रु शांत हो जाते हैं । इस प्रकार बहुत से प्रसस्त दृष्टान्त उपस्थित कर सूत्रकार द्राष्र्टान्त स्वरूप भगवान का नाम ग्रहण करते हुए बतलाते हैं कि इसी प्रकार ऋषियों में श्रीमान् परम ऐश्वर्यशाली श्री वर्धमान स्वामी उत्तम हैं। दाणाण सेट्ठं अभयप्पयाणं, सच्चेसु वा अणवजं वयंति । तवेसु वा उत्तम बंभचेरे, लोगुत्तमें समणे नायपुत्ते ॥२३॥ छाया - दानानां श्रेष्ठमभयप्रदानं, सत्येषु वाऽनवद्यं वदन्ति । तपस्सुवोत्तमं ब्रह्मचर्य्य, लोकोत्तमः श्रमणो ज्ञातपुत्रः ॥ अनुवाद - अभयदान-त्राण या शरण दान सब दानों में श्रेष्ठ है । सत्यों में वह सत्य श्रेष्ठ है जो अनवद्यपापवर्जित हो । तपों में ब्रह्मचर्य उत्तम है । उसी प्रकार लोक में ज्ञातपुत्र भगवान महावीर सर्वोत्तम है । टीका - तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषांमध्ये जीवानां जीवितार्थिनां त्राणकारित्वादभयप्रदानं श्रेष्ठं तदुक्तम् - दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥१॥ इति, गोपालाङ्गनादीनां दृष्टान्त द्वारेणार्थोबुद्धौ सुखेनारोहतीत्यतः अभयप्रदान प्राधान्यख्यापनार्थकथानकमिदंवसन्तपुरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीड़ायमानस्तिष्ठति, तेन कदाचिच्चौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिभो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं-किमनेनाकारीति !, तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राज विरुद्धमिति, तत एकया राजा विज्ञप्तो यथा-यो भवता मम प्राग् वरः प्रतिपन्नः सोऽधुनादीयतां येनाहमस्योपकरोमि किञ्चित, राज्ञाऽपि प्रतिपन्नं ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कृतो दीनारसहस्रव्ययेन पञ्चविधानशब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययाऽपितथैव द्वितीयमहो दीनाशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुझं तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽसावन्याभिर्हसिता नास्यत्वया किञ्चिदत्तमिति, तदेवं तासां परस्परबहूपकार विषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा केन तव बपहूपकृतमिति, तेनाप्यभाणि यथा-न मया मरण महाभयभीतेन किञ्चित् स्नानादिकं सुखंव्यज्ञायीति, अभयप्रदानाकर्णनेन पुनर्जन्मामिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् ‘अनवद्यम्' अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुन : परपीडोत्पादकं सत्यं, सद्भयो हित सत्यमितिकृत्वा, तथा चोक्तम् "लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीव्रवेदने ॥१॥" अन्यच्च - "तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोक्ति नो वदे ॥१॥" तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्त्युपेतं ब्रह्मचर्य प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो' भगवान् श्रमणः प्रधान इति।।२३। किञ्च (359
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy