SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् द्वितीय वैतालिय अध्ययन प्रथम उद्देशकः संबुज्झह किं न बुज्झह ? संबोही खलु पेच्च दुल्लहा । णो हूवणमंति राइओ, नो सुलभं पुणरावि जीवियं ॥१॥ छाया - संवुध्यध्वं किं न बुध्यध्वं ? संबोधिः खलु प्रेत्य दुर्लभा । . नो हूप नमन्ति रात्रयः, नो सुलभं पुनरपि जीवितम् । अनुवाद - भव्य जनों को संबोधित कर कहा जाता है-आप बोध को प्राप्त करें । ऐसा क्यों नहीं करते ? इस जगत से चले जाने के बाद बोध प्राप्त करना दुर्लभ है-दुर्गम है । जो रातें बीत जाती हैं, फिर वे लौट कर नहीं आती । जो जीवन चला जाता है, वह फिर सुलभ नहीं रहता । ____टीका - साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतंसूत्र मुच्चारणीयं तच्चेदम् - तत्र भगवान् आदि तीर्थंकरों भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदि वा सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच यथा-संवुध्यध्वं यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः तथाहि मानुषं जन्म तत्राऽपि कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां-स्वसंवित्त्यवष्टम्भेनाह-किं न बुध्यध्वमिति, अवश्यमेवंविधसामग्यवाप्तौ सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे वोधो विधेय इति भावः, तथाहि "निर्वाणादि सुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्ये स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैदूर्य्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे लातुं स्वल्प मदीप्ति काचशकलं किं साम्प्रतं साम्प्रतम्"? अकृतधर्माचरणानान्तु प्राणिनां संबोधिः सम्यग्दर्शनज्ञानचारित्रानाप्तिलक्षणा प्रेत्य परलोकगतानां खलु शब्दस्यावधारणार्थत्वाद् सुदुर्लभैव । तथाहि-विषयप्रमादवशात् सकृद् धर्माचरणाद भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किञ्च हुरित्यवधारणे, नैवातिक्रान्तारात्रयः उपनमन्ति पुनौकन्ते, नह्यतिक्रान्तो यौवनादिकालः पुनरावर्तत इति भावः तथाहि "भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे नहि गतमायुर्भूयः प्रत्येत्यपि देवराजस्य" ? नो नैव संसारे सुलभं सुप्रापं संयमप्रधानं जीवितं, यदि वा जीवितम् आयुस्त्रुटितं सत् तदेव सन्धातुं न शक्यत इति वृत्तार्थः संबोधश्च प्रसुप्तस्यसतोभवतिस्वापश्च निद्रोदये, निद्रासंबोयोश्च नामादिश्चतुर्द्धा निक्षेपः तत्र नामस्थापने अनादृत्यद्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह "दव्वं निद्दावेओ दंसणणाणतवसंजमा भावे । अहिगारो पुण भणियो, नाणे तवदंसण चरिन्ते ॥४२॥ इह च गाथायां द्रव्यनिद्राभाव संबोधनश्च दर्शितः तत्राद्यन्तग्रहणेन भावनिद्राद्रव्य बोधयोस्तदन्तर्वर्तिनोर्ग्रहणं द्रष्टव्यं, तत्र द्रव्यनिद्रानिद्रावेदो वेदन मनुभव: दर्शनावरणीय विशेषोदय इति यावत्, भावनिद्रातुज्ञानदर्शनचारित्रशून्यता। तत्र द्रव्यवोधो द्रव्यनिद्रया सुप्तस्य बोधनं, भावे भावविषये पुनर्बोधो दर्शनज्ञान चारित्रतपःसंयमाः द्रष्टव्या। इह च भावप्रबोधेनाधिकारः स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारो भङ्गा योजनीया इति ॥४३॥ 130
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy