________________
श्री सूत्रकृताङ्ग सूत्रम्
जे केइ तसा पाणा, चिट्ठति अदु थावरा | परियाए अस्थि से अजू, जेण ते तसथावरा ॥८॥
छाया
-
ये केचित् त्रसाः प्राणा स्तिष्ठन्त्यथवा स्थावराः । पर्य्यायोऽस्ति तेषा मञ्जु येन ते त्रसस्थावराः ॥
-
अनुवाद • इस जगत में जितने त्रस - गतिशील या त्रास पाते प्रतीत होने वाले एवं स्थावर-स्थितिशीलअचल प्राणी हैं वे निश्चय ही एक दूसरे के पर्याय में जाते हैं । कभी त्रस प्राणी स्थावर के रूप में उत्पन्न होते हैं एवं कभी स्थावर त्रस के रूप में परिणत होते हैं ।
टीका अस्य चोत्तरदानायाह-ये केचन त्रस्यन्तीति त्रसाः द्वीन्द्रियादयः प्राणाः प्राणिनः सत्त्वा स्तिष्ठन्ति त्रसत्वमनुभवन्ति, अथवा स्थावराः स्थावर नामकर्मोदयाद् (या) पृथिव्यादयस्ते यद्ययं लोकवादः सत्यो भवेत् यथा यो यादृगस्मिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, ततः स्थावराणां त्रसानाञ्च तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपद्येरन् । लोकेनाऽपि चान्यथात्व मुक्तं तद्यथा - " स वै एष शृगालो जायते यः सपुरीषो दह्यते" तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्पर संक्रमणाद्यनिवारितमिति । तथा " अनन्तो नित्यश्च लोकः" इति यदभिहितं, तत्रेदमभिधीयते - यदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते तत: परिणामानित्यत्वमस्मदभीष्ट मेवाभ्युपगतं न काचित् क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन. नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात्, नहि क्षणभाविपर्य्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणा वसीयते, निष्पर्य्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति । तथा शश्वद्भवनं कार्य्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशित्वं यदुच्यते द्रव्यविशेषापेक्षयातदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरन्दिस्येव वस्तुत्वमेव हीयेतेति । तथा यदुक्तम् 'अन्तवान् लोकः सप्तद्वीपावच्छिन्नत्वादित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम् ' अपुत्रस्य न सन्ति लोका इत्यादीत्येतदपि बालभाषितं तथाहि किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् ? तद्यदि सत्तामात्रेण ततः इन्द्रमहकामुक गर्तावराहादिभि वर्याप्ताः लोकाः भवेयुः, तेषां पुत्रबहुत्वसम्भवात् अथानुष्ठानमा श्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठित मपरेणाशोभनमिति तत्र का वार्ता ? स्वकृतानुष्ठानञ्च निष्फलमापद्येतेत्येवं यत्किञ्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्ति विरोधित्वादनाकर्णनीयमिति । यदपि चोक्तम् 'अपरिमाणं विजानाती' ति तदपि न घटामियर्ति यतः सत्यायपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेव मन्यत्राप्या (पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्ति र्न स्यात् । तस्मात् सर्वज्ञत्वमेष्टव्यम् । तथा तदुक्तं 'स्वापबोध विभागेन परिमितं जानाति' त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति । तदापि च कैश्चिदुच्यते यथा “ब्रह्मणः स्वप्नावबोधयो र्लोकस्य प्रलयोदयौ भवत" इति तदप्य युक्ति संगतमेव प्रतिपादितं चैतत्प्रागेवेति न प्रतन्यते । नचात्यन्तं सर्वजगतउत्पादविनाशौविद्येते 'न कदाचिदनीदृशं जगदि' तिवचनात् । तदेवमनन्तादिकं लोकवादं परिहृत्य यथावस्थित वस्तुस्वभावाविर्भावनं पश्चार्द्धेन दर्शयति-ये केचन त्रसाः स्थावराः ना तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्म परिणत्याऽस्त्यसौ पर्य्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्य्यामेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः सम्पद्यन्ते, स्थावराअपि च त्रसत्व मश्नुवते तथा त्रसा स्त्रसत्वमेव स्थावराः स्थावरत्वमेवानुवन्ति न पुन र्यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति ॥८॥
122
-