________________
११. अथैका पिडका जाता, मधुमेहसमुद्भवा।।
वामे पाणौ महाभागैः शल्यज्ञैः सा विपाटिता।। १२. साम्प्रतं निम्बकल्कादियोगेनायोजिताऽपि सा।
शान्ताऽपि रोपणं पूर्णं भजते न विषायिता।। १३. चतुःसंख्यं प्रतिशते, मधुमूत्रपरीक्षकैः।
निश्चितं तस्य भागोऽपि बुध्यते न भयावहः ।। १४. विना प्रमेहमप्येता जायन्ते दुष्टमेदसः।
सत्यस्मिन् सुप्रमाणेऽपि मधुमेहोऽनुमीयते ।। १५. साम्प्रतं मयका किं किं क्रियतेऽत्र चिकित्सितम्।
संक्षेपेण च तद् वक्ष्ये, विचार्य वैद्यवल्लभैः ।। १६. यकृदरिरारिश्च, सिंहनादरसस्तथा।
मकरध्वजकः प्राण-वल्लभो मेहकेशरी।। १७. हरीतकी च रोहीतो गोमूत्रं च वृषो मधु।
सत्त्वं गुडूचिकायाश्च, पिप्पली भूरिपेषिता।। १८. फाण्टे मन्थेऽनुपाने च, प्रयुज्यन्ते यथा तथा।
गोमूत्रस्य च सेकोऽपि, क्रियतेऽथोदरोपरि।। १६. आहारे तु विशेषेण, पयो गव्यं प्रदीयते।
यवागूमुद्गदालिश्च, दीयतेऽपि कदाचन ।। २०. केवलस्य तु दुग्धस्य, प्रयोगो नैव वर्तते। __यद्यप्यस्य मतिर्भूयो विज्ञवर्य! प्रपद्यते ।। २१. कृपां विधाय रोगार्ते रक्षयंश्च भिषग्यशः।
यत्करोति भवान् धीमान् तत्कार्यमिति पूर्यताम् ।। ५०. पंडित रघुनंदनजी द्वारा प्रदत्त काव्यमय पत्र को पढ़कर वैद्यराज स्वामी लच्छीरामजी ने भी संस्कृत के श्लोकों में पत्र का उत्तर दिया
अनुष्टुप्छन्दांसि १. श्रीमन् ! भवद्दलं प्राप्तं, साम्प्रतं पद्यपेशलम्।
रोगलक्षणविज्ञानं, व्यवस्थां च प्रकाशयत्।। २. व्याधेः स्वरूपमालक्ष्य बलकालानुसारतः। ___ अनुमोदामहे साधु, व्यवस्थां भवता कृताम्।। ३. किन्तु यद्युदरे जातं संभाव्ये तोदकं तदा।
जलोदरारिनामात्र, मात्रया दीयतां रसः।।
परिशिष्ट-१ / ३०१