________________
विश्वामित्र उवाच । वीरश्रेष्ठ अत्र खलु पुरा धनधान्य संपन्नौ स्फीतौ जनपदावेव सुचिरम् आस्ताम् । कालान्तरे तु ताड़का नाम नागसहस्रबलं धारयन्ती कामरूपिणी राक्षसी बभूव। सा च सुन्दस्य भार्या पराक्रमेण शक्रसदृशो मारीचस्तु तस्यः पुत्रः। एवंविधा तु साऽधुना पन्थानम् अत्यर्धयोजनम् आवृत्य तिष्ठति। अतएव च वनमेतद् गन्तव्यमस्माभिः बाहुबलेन, त्वम् इमां दुष्टचारिणीं हन्तुम् अर्हसि । ममाज्ञया निष्कण्टकम् इमं देशं कुरु । तस्या हि कारणाद् ईदृशमपि देशंन कञ्चिद् आगच्छति। अतः स्त्रीवधेऽपि मैव घृणां कुरु । चातुर्वर्ण्यस्य हितार्थे हि प्रजारक्षण-कारणाद् राजसूनुना नृशंसं वा अनृशंसं वा कर्म कर्तव्यम् इति। एवमुक्तो रामचन्द्रो धनुर्धरो धनुर्मध्ये मुष्टिं बबन्ध । शब्देन दिशो नादयन् तीव्रज्याघोषं चाकरोत् । राक्षसाः तु तदा क्रोधान्धास्तत्र प्राप्ताः। राघवौ चोभौ तथा मुहूर्तं रजोमेघेन विमोहितौ। किन्तु ताम् अशनीमिव वेगेन पतन्तीमपि विक्रान्तां शरेण रामः उरसि विदारयाञ्चकार। सा पपात ममार च।
पाठ 40
अब आप परस्मैपदी प्रथम गण के धातुओं के वर्तमान और भविष्य के रूप बना सकते हैं। संस्कृत में धातुओं के दस गण होते हैं जिनमें से पहले गण के कई धातु दिए जा चुके हैं। आगे अन्य गणों के धातुओं के साथ आपका परिचय कराया जाएगा। कई पाठों तक प्रथम गण के परस्मैपदी धातु ही देने हैं इसलिए इनके रूपों को ठीक से स्मरण कीजिये
ज्वर (रोग) = बुखार होना-1 गण-परस्मैपद
वर्तमान-कालः प्रथम पुरुष ज्वरति
ज्वरतः मध्यम पुरुष ज्वरसि
ज्वरथः उत्तम पुरुष ज्वरामि
ज्वरावः भविष्य-कालः
ज्वरन्ति ज्वरथ ज्वरामः
प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष
ज्वरिष्यति ज्वरिष्यसि ज्वरिष्यामि
ज्वरिष्यतः ज्चरिष्यथः ज्वरिष्यावः
ज्वरिष्यन्ति ज्वरिष्यथ ज्वरिष्यामः
153