________________
समास
1. विगतचेतनः-विगता चेतना यस्य सः। 2. प्रहृष्टंवदनः-प्रहृष्टं वदनं यस्य सः। 3. विद्यासम्पन्नः-विद्यया सम्पन्नः। 4. रजोमेघः-रजसः मेघः। 5. प्रजारक्षणकारणात्-प्रजायाः रक्षणं प्रजारक्षणम् तस्य कारणात् । संक्षिप्त-वाल्मीकि रामायणे बालकाण्डम्
द्वितीयः खण्डः पुत्रं रामचन्द्रं मुनिना याच्यमानं श्रुत्वा राजा दशरथस्तावद् विगतचेतन इव मुहूर्त बभूव । विश्वामित्रः पुनरुवाच। पुनः पुनरपि व्रतं सम्पाद्य समाप्तिसमय एवैतौ राक्षसौ वेदिं मांसरुधिरेण अभिवर्षतः । रामस्तु स्वेन दिव्येन तेजसा राक्षसानां विनाशने शक्तः। अस्मै श्रेयश्च बहुरूपं प्रदास्यामि । यज्ञस्य दशरात्रं हि राजीवलोचनं रामं दातुमर्हसि इति। दशरथस्तु प्रत्युवाच । ऊनषोडशवर्षो मे रामः । न योग्यो राजीवलोचनो रक्षसाम् । राक्षसा हि कूटयुद्धाः। अपि च नैव जीवामि रामस्य वियोगे मुहूर्तमपि। कालोपमौ च मारीच-सुबाहू। अतो न दास्यामि पुत्रकम् इति। कौशिकस्तु प्रत्युवाच सक्रोधम् । अर्थ प्रतिश्रुत्यापि सम्प्रति प्रतिज्ञां हातुमिच्छसि । अयुक्तोऽयं विपर्पयो राघवाणां कुलस्य इति। एवं विश्वामित्रस्य क्रोधेन भीतो दशरथः, वसिष्ठेन च संमन्त्र्य प्रोत्साहितः। ततः प्रह्यष्टवदनः सलक्ष्मणं राममाह्वयत् कुशिकपुत्राय तौ ददौ च । तावपि रामलक्ष्मणौ धनुषी गृहीत्वा पितामहसदृशं विश्वामित्रमश्विनोपमौ कुमारावनुजग्मतुः।
अर्धयोजनं गत्वा सरयूनदीतीरे विश्वामित्रो राममुवाच-वत्स, सलिलं गृहाण। नानाविधान् मन्त्रान् विद्ये च बलातिबले नाम तुभ्यं ददामि। आभ्यां विद्याभ्यां ते क्षुत्पिपासे अपि न भविष्यत् इति। रामोऽपि जलं स्पृष्ट्वा प्रहृष्टवदनः प्रतिगृहीतवान् एतान् मन्त्रान्। एवं विद्यसम्पन्नो रामः शोभितो यथा शरत्कालीनो दिवाकरः। अग्रगामिनौ च तौ वीरौ राजपुत्रौ ततो गङ्गा-सरयू-सङ्गमे पुण्यमाश्रमपदमेकं सदृशाते । मुनयोऽपि तत्रस्थाः शुभां नावमेकाम् आनीय विश्वामित्रं कथयाञ्चक्रु। आरोहतु भवान् राजपुत्रैः सह नावम्। शिवास्ते पन्थानः सन्तु। कालात्ययो न भवतु इति। विश्वामित्रश्च तान् ऋषीन् पूजयामास । पश्चाच्च स राजपुत्राभ्यां सहितः गङ्गां ततार । अतिधार्मिकौ च तौ राजपुत्रौ दक्षिणं तीरमासाद्य नदीभ्यां प्रणामं कृतवन्तौ। ततो घोर सङ्काशं वनं दृष्ट्वा स इक्ष्वाकु-नन्दनो रामो मुचिश्रेष्ठं विश्वामित्रं पप्रच्छ। अहो सश्रीकं वनम्। किं परम् - अतिदारुणम्।