________________
नातिदूरे प्रभूतजलसनाथं सरः । तद्, यदि मम पृष्ठं कश्चिदारोहति, तम् अहं तत्र नयामि । (7) अथ ते तत्र विश्वासमापन्नास्तात', मातुल इति ब्रुवाणा' अहं पूर्वम् अहं पूर्वम् इति समन्तात् परितस्थुः । (8) सोऽपि दुष्टाशयः, क्रमेण, तान् पृष्ठम् आरोप्य जलाशयस्य नातिदूरे, शिलां समासाद्य तस्याम् आक्षिप्य स्वेच्छया तान् भक्षयित्वा स्वकीयां नित्याम् आहारवृत्तिमकरोत् ̈ । (9) अन्यस्मिन् दिने तं कुलीरकम् आह - तात ! मया सह ते प्रथमः स्नेहः सञ्जातः । तत् किं मां परित्यज्य अन्यान् नयसि । तस्माद् अद्य मे प्राणत्राणं कुरु । (10) तदाकर्ण्य सोऽपि दुष्टश्चिन्तितवान्' - निर्विण्णोऽह मत्स्यमांसभक्षणेन । तदद्य एनं कुलीरकं व्यञ्जनस्थाने करोमि - ( 11 ) इति विचिन्त्य, तं पृष्ठमारोप्य', तां वध्यशिलाम् उद्दिश्य प्रस्थितः । कुलीरकोऽपि " दूरादेव" अस्थिपर्वतं अवलोक्य मत्स्यास्थीनि परिज्ञाय तम् अपृच्छत् - तात ! कियद्दूरे तत् जलाशयः । ( 12 ) सोऽपि मन्दधीः, जलचरोऽयम्" इति मत्वा, स्थले न प्रभवति इति, सस्मितम् इदम् आह - कुलीरक ! कुतोन्यो ” जलाशयः । मम प्राणयात्रा इयम्। त्वाम् अस्यां शिलायां निक्षिप्य भक्षयामि । ( 13 ) इत्युक्तवति तस्मिन् कुपितेन कुलीरकेन स्ववदनेन ग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैस्तज्जलाशयम् आससाद । (14) ततः सर्वैरेव जलचरैः पृष्टः - भोः कुलीरक ! किं निमित्तं त्वं पश्चादायातः ?
12
4
के पास ही बहुत जल से युक्त एक तालाब है। अगर कोई मेरी पीठ पर बैठेगा तो मैं उसको वहाँ ले जाऊँगा। (7) (अथ ते.... परितस्थुः ) पश्चाद् वे वहाँ विश्वास करने वाले पिता, मामा ऐसा बोलने वाले, मैं पहले, मैं पहले, ऐसा कहते हुए उसके इधर-उधर ठहरे । (8) (शिलां......... अकरोत् ) पत्थर प्राप्त करके, उसके ऊपर फेंककर अपनी इच्छा के अनुसार उनको भक्षण करके अपना नित्य का भोजन का कार्य करता था । ( 9 ) ( मां परित्यज्य) मुझे छोड़कर । ( 10 ) ( सोऽपि दुष्टश्चितितवान् ) उस दुष्ट ने भी सोचा । (निर्विण्णो... स्थाने करोमि ) मत्स्यमांस भक्षण से घृणा हुई है, तो आज इस केंकड़े की मैं चटनी बनाऊंगा। (11) (वध्यशिलां उद्दिश्य प्रस्थितः) वध करने के पत्थर की दिशा से चला। (मत्स्यास्थीनि परिज्ञाय) मछलियों की हड्डियां जानकर । ( 12 ) ( सस्मितमिदमाह ) हँसता हुआ ऐसा बोला। (कुतोऽन्यो जलाशयः) कहां दूसरा तालाब ( मम प्राणयात्रा इयम्) मेरी प्राणों की रक्षा यह । ( 13 ) ( इति उक्तवति.....मृतश्च) ऐसा उसने बोला, इस क्रोधित केंकड़े ने अपने मुख से उसे गले से पकड़ा और मार दिया ।
4. आपन्नाः+तात। 5. ब्रुवाणाः+अहम् । 6. वृत्तिम् + अकरोत् । 7. दुष्टः + चिन्तितवान् । 8. निर्विण्णः+अहम् । 9. पृष्ठम् + आरोप्य । 10. कुलीरकः+अपि । 11. दूरात्+एव । 12 चरः+अयम् । 13 कुतः+अन्यः । 14. शनैः+तत्+जला. ।
123