________________
(21) बक-कुलीरकयोः कथा (1) अस्ति कस्मिंश्चित् प्रदेशे नानाजलचरसनाथं सरः । तत्र च कृताश्रयः एकः बकः वृद्धभावम् उपागतः, मत्स्यान् व्यापादयितुम् असमर्थः। ततश्च क्षुत्क्षामकण्ठः, सरस्तीरे उपविष्टो रुरोद। एकः कुलीरको नानाजलचरसमेतः समेत्य, तस्य दुःखेन दुःखितः सादरम् इदं ऊचे-(2) किमद्य त्वया आहारवृत्तिर्न अनुष्ठीयते। स बक आह-वत्स, सत्यम् उपलक्षितं भवता। मया हि मत्स्यादनं प्रति परमवैराग्यतया, साम्प्रतं प्रायोपवेशनं कृतम् । तेन अहं समीपागतानपि मत्स्यान् न भक्षयामि। (3) कुलीरकस्तच्छ्रत्वा' प्राह-कि तद् वैराग्यकारणम्। स प्राह-अहम् अस्मिन् सरसि जातो वृद्धिं गतश्च । तन्मया एतच्छ्रुतं यद् द्वादशवार्षिकी अनावृष्टिः लग्ना सम्पद्यते। (4) कुलीरक आह-कस्मात् तछुतम्। बक आह-दैवज्ञमुखात् । वत्स, पश्य-एतत् सरः स्वल्पतोयं वर्त्तते। शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सह अहं वृद्धिं गतः सदैव क्रीडितश्च, ते सर्वे तोयाभावात् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुम् अहम् असमर्थः, तेन एतत् प्रयोपवेशनं कृतम्। (5) ततः स कुलीरकस्तदाकर्ण्य, अन्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास। अथ ते सर्वे भयत्रस्तमनसस्तम् अभ्युपेत्य पप्रच्छुः-तात, अस्ति कश्चिदुपायः, येन अस्माकं रक्षा भवति। (6) बक आह-अस्ति अस्य जलाशयस्य
(1) (नाना-जलचर-सनाथम्) बहुत प्राणी जिसमें हैं ऐसा। (तत्र कृताश्रयः) वहां रहनेवाला। (क्षुत्क्षामकण्ठ...रुरोद) भूख से जिसका गला थका हुआ है ऐसा, तालाब के किनारे पर बैठकर रोने लगा। (नानाजलचरसमेतः) बहुत जल में विचरने वाले प्राणियों के साथ। (2) (सत्यमुपलक्षितं भवता) ठीक आपने देखा। (मया हि...न भक्षयामि) मैंने तो मत्स्यभक्षण के विषय में उपवेशन व्रत किया है, उससे मैं पास आनेवाली मछलियों को भी नहीं खाता। (3) (जातो वृद्धिं गतश्च) उत्पन्न होकर बड़ा हो गया। (तन्मया... लग्ना) तो मैंने यह सुना है कि बारह साल की अनावृष्टि लगी है। (4) (शीघ्रं शोषं यास्यति) शीघ्र ही शुष्क होगा। (अस्मिन्...नाशं यास्यन्ति) यह खुष्क होने पर जिनके साथ मैं बड़ा हुआ और हमेशा खेला-ये सब जल के अभाव से नाश को प्राप्त होंगे। (5) (ततः स....निवेदयामास) पश्चात् उस केंकड़े ने यह सुनकर अन्य जल-निवासियों को भी उसका भाषण निवेदन किया। (अथ...पप्रच्छुः) अनन्तर वे सब भय से डरे हुए मन वाले उसके पास जाकर पूछने लगे। (6) (अस्ति अस्य.......नयामि) इस तालाब
लीरक:+तत्+श्रुत्वा। 2. एतत्+श्रुतम्। 3. मनसः+तम्।