________________
4. अस्य कूपस्य जलं बहु शीतम् अस्ति, अतः अहं तेनापि स्नानं कर्तुं नेच्छामि-इस
कुएँ का जल बहुत ठंडा है, इसलिए मैं उससे भी स्नान करना नहीं चाहता। 5. यदि कूपस्य शुद्धेन जलेन अपि स्नानं कर्तुं नेच्छसि तर्हि मम स्नानागारे गत्वा
तत्र स्थितेन जलेन स्नानं कुरु-अगर कुएँ के शुद्ध जल से भी स्नान करना
नहीं चाहता, तो मेरे स्नानघर में जाकर वहाँ रखे हुए जल से स्नान कर। 6. शोभनम् ! भो मित्र ! यथा त्वया उक्तं तथा करोमि-अच्छी बात है ! मित्र ! जैसा तूने कहा, वैसा करता हूँ।
शब्द वक्तुम-बोलने के लिए। शिक्षितः-सिखाया हुआ। नरपतिः-राजा। कस्मिंश्चिद्-किसी एक में। प्रश्ने कृते-प्रश्न करने पर। अनयत्-(वह) ले गया। अनयः-(तू) ले गया। अनयम्-(मैं) ले गया। प्रविश्य-प्रवेश करके । भाषणम्-बोलना। श्रुत्वा-सुनकर। स्वमन्दिरम्-अपना महल। मूर्खः-मूढ़। क्रीतः-ख़रीदा हुआ। शुकः-तोता। सन्देहः-संशय। नरेशः-राजा। राज्ञा-राजा ने। राजन्-हे राजा। राजसभा-राजा का दरबार। वाचम्-वाणी को। लक्षरूप्यकाणि-लाख रुपये। ददौ-दिए। स्थापयित्वा-रखकर। कुपितः-क्रोधित। बहुमूल्यः-बहुत कीमत वाला। पृष्टवान्-पूछा। पक्षिपालकः-पक्षियों का पालन करने वाला। धूर्तः-शठ, ठग।
शुकस्य कथा केनचित् धूर्तेन पक्षिपालकेन एकः शुकः मनुष्य इव वक्तुं शिक्षितः। कस्मिंश्चिद् अपि प्रश्ने कृते 'अत्र कः सन्देहः' इत्येव सः शुकः वदति। एकदा सः पक्षिपालकः तं शुकं नरेशस्य समीपम् अनयत् । तत्र राजसभां प्रविश्य पक्षिपालकेन उक्तम्-"हे राजन् ! अयं शुकः मनुष्य इव सर्वभाषणं वदति।" पक्षिपालकस्य एतद् वचनं श्रुत्वा राज्ञा शुकं प्रति प्रश्नः कृतः-“हे शुक ! किं त्वं सर्वदा मनुष्यस्य वाचं वदसि ?"
शुकेन उक्तम्-“अत्र कः सन्देहः।" इति तेन उत्तरेण अतीव सन्तुष्टः सः राजा तस्मै पक्षिपालकाय लक्षरूप्यकाणि ददौ। पश्चाद् स्वमन्दिरे शुकं नीत्वा तत्र च उत्तमे स्थाने तं स्थापयित्वा यदा प्रश्नः कृतः तदा सर्वस्य अपि प्रश्नस्य ‘अत्र कः सन्देहः' इति एव एकम् उत्तरं तेन शुकेन दत्तम् । तदा कुपितेन राज्ञा पुनः शुकं प्रति प्रश्नः कृतः
"रे शुक ! त्वम् 'अत्र कः सन्देहः' इति एव वक्तुं जानासि ?" शुकेन उक्तम्-“अत्र कः सन्देहः" इति। तदा सः राजा तं शुकं पुनः पृष्टवान्-"रे शुक ! तर्हि किम् अहं मूर्खः, यत् मया बहुमूल्येन त्वं क्रीतः।" शुकेन उक्तम्-“अत्र कः सन्देहः" इति।
।