________________
, आगमाद्धारक-आचार्यदेव १००८ श्री आनन्दसागरसूरीश्वरस्तुत्यष्टकम् । श्रीजैनशासननमोमिहिरायमाणं
___सज्ज्ञानसंयमशमादिगुणाम्बुराशिम् । आप्तागमोद्धृतिकर कृतभूपबोध
मानन्दसागरगुरुं प्रणमामि सूरिम् ॥१॥ आसीज्जनुः कपडवंजपुरे यदीयं
नाम्ना च यस्य यमुना जननी सुशीला । श्रीमनलाल इति यज्जनकः प्रशान्त
आनन्दसागरगुरु प्रणमामि सूरिम् ॥२॥
यो वैक्रमे मुनियुगाङ्कमृगाङ्क (१८४७) वर्षे
जह्वरसागर-मुनीश्वरपादपद्मे । आदत्त चारु चरण शिववम धीरं
आनन्दसागरगुरुं प्रणमामि सूरिम् ॥३॥ प्राचीनपुस्तकसमुद्धरणाय देव
चन्द्रादिनामकलितः प्रथितः सुकोशः । यस्योपदेशमधिगम्य जनि प्रपन
आनन्दसागरगुरुं तमहं प्रवन्दे ॥४॥