________________
प्रापज्जनि सदुपदेशमवाप्य यस्य
श्री आगमादयसमित्यभिधा सुसंस्था ।
सिद्धान्तवाचनप्रकाशनकारिका श्री.
आनन्दसागरगुरुं तमहं वन्दे ||५||
निर्युषित- भाष्य - घरवृत्तियुतानि सम्यग्
यः प्रापयत्प्रवचनानि विशोध्य यत्नात् । भव्योपकाररसिक श्रुतभक्तिभाज
मानन्दसागरगुरुं तमहं वन्दे || ६ ||
यो वाचनां समुददान्मुनिमण्डलाय
ܪ
ज्ञान प्रचारयितुमाप्तजिनागमानाम |
सम्यग् जिनागमरहस्य विदां वरेण्य
मानन्दसागरगुरुं तमहं वन्दे ॥७॥
एवं कृताऽन्यशुभशासन कृत्य जात
विख्यातशारदश शिप्रभशुभ्रकीर्तिम् |
आचार्यमौलिमुकुट मुनिवृन्दवन्ध
मानन्द सागरगुरुं प्रणमामि सूरिम ||८||