________________
उमाभाईसुपुत्रेण पन्नालालेति श्रेष्ठिना । संस्था जिनागमसम-खातं तत्र घधापयत् ॥२७॥ युग्मम् ॥ उत्कीर्णागमशिलानां स्थापनार्थ क्रमेण च ।
संस्था निरमापयत् तत्र भव्यमागममन्दिरम ॥२८॥ आगमौकसि निष्पन्ने प्रतिष्ठार्थ च मण्डपे !.......
संस्थापिताः पीठिकायां जिनेशप्रतिमाः ततः ॥२९॥
___ ९ ९ ९ १ - - तासां च नवनिध्यङ्क-चन्द्राब्दे वैक्रमे विधो। ..
माधासितद्वितीयायां मुहूर्ते समहोत्सवम् ॥३०॥ शुभाञ्जनशलाकाहन्मृतीनां विधिना कृता ।
माणिक्याब्धियुतैः सरी-श्वरैरानन्दसागरैः ॥३१॥ ततश्च नवनिध्वङ्कचन्द्राब्दे वैक्रमे कृता ।
माधस्य कृष्णपञ्चम्यां प्रतिष्ठागममन्दिरे ॥३२॥ समुत्कीर्णागमाः शिला आगमालभित्तिषु ।
मुहूर्तेोजिताः सम्यग रत्नानीव · गणेशितुः ॥३३॥ तच्चैत्योद्घाटन राज-नगरस्थेन निर्मितम
धर्मिमाणिकलालेन मनासुखेभ्यसूनुना ॥३४॥ आरब्धा माधशुक्का-दशीदिनाद् महोत्सवः ।।
जिनागमालये रम्ये कुम्भस्थापनपूर्वकः म३५।।