________________
नवग्रह चनमहा - पूजाङ्गरचनादिकः । द्वादशान दिवसान् यावत् प्रावर्त्तत प्रमोदतः || ३६ || युग्मम्
प्रत्यह ं तत्र स्वधर्म - वात्सल्यमभवत् तथा ।
प्रभावनादीनि धर्म - कृत्यानि च विशेषतः || ३७॥
दिवसेऽन्त्ये महास्नात्र - मष्टोत्तरशताह्नयम् । जेमयित्वा जनान् सर्वान् ग्रामश्च निधूमीकृतः । ३८ ॥
प्रतिष्ठावसरे तत्र भूयांसेा मुनयो वराः ।
तं महं दृष्टुमायाताः श्रावकाश्च सहस्रशः ||३९|| विलेाक्य मुदिताः सर्वे प्रशसन्तो महोत्सवम् |
अद्दष्टपूर्व इत्येष स्वस्वस्थानमयुर्जनाः ॥ ४० ॥
इत्युत्सव महानेष मनुष्यमरोज्झितः ।
निर्विघ्न पूर्णतां प्रापत् पादलिप्तपुरे वरे ||४१ ॥
आचार्यानन्दसागर - सूरिपट्टधरो मुदा ।
प्रशस्तिमेतामलिखत् सूरिर्माणिक्यसागरः || ४२ ||