________________
पूज्य गच्छाधिपति आचार्य श्रीमाणिक्यसागरसूरीश्वर प्रणीता
श्रीवर्धमानजिनागममन्दिर - प्रशस्तिः
श्रीसिद्ध भूभृतलहट्टिकास्थित समुन्नतं देवविमानसन्निभम् । विलोक्य जैनागममन्दिरं वरं प्रयाति का भव्यजनो मुदर्शन हि १ ॥ १ ॥ सच्चतुः शिखरिचैत्यखार्णव- मानदेवकुलिकाविभूषितम । राजते गगनचुम्बि बन्धुर यत्र शाश्वत जिनाहवमन्दिरम् ||२|| सिद्धचक्रगवर मण्डलाखिल तीर्थकृद्गणधरादिमूर्तियुग | सिद्धचक्रगणभृद्गृहं तथा तद् जिनागमगृह न कः स्तुते १ ॥ युग्मम् विशाले श्रीतपागच्छे कल्पद्रुमोपमे वरे ।
श्रेष्ठसाधुगणा शाखा समस्ति सागराभिधा ||४||
तत्राऽभवन् जिनेन्द्रस्य शासनस्य प्रभावकाः । मुनीश्वरा 'जयवीर' - सागरा ज्ञानसागराः ||५|| जहूवरेति प्रसिद्धाः आसस्तेषां शिष्यरत्नाः श्रुतसंयमशालिनः ।
आगमेाद्धारकाः सूरीश्वरा आनन्दसागराः ||६॥
यैर्मुनीनां वाचनादि-सौकर्यार्थ स्वयं समे ।
संशोध्य रम्यपत्रेषु प्रकाशिता जिनागमाः ||७||
सिद्धान्तवाचनाः सप्त पुरेषु पत्तनादिषु ।
श्रुतार्थिभ्यो मुनिभ्यो ये प्रायच्छन् ज्ञानवृद्धये ॥८॥