________________
-प्रदीप
यतः शुभस्य वृद्धिस्थात्, शुभभाव समागमात् ॥३३॥ धौतवस्त्रश्च प्रच्छाद्य, निर्विघ्ने स्थानके शुभे । आसनं मुखपत्तिश्च, हस्तेलघु रजोहरम् ॥३४॥ प्रतिलेख्यानि सर्वाणि, ततः क्रियां समाचरेत् । वस्त्रबन्धनमास्ये न, कायंते चरणेच्छुभिः ॥३॥ मुखबन्धं समायेतु, क्रियते फललिप्मया। प्रत्युत जीव वैनाशे, पातकं किल जायते ॥३६॥ उपर्युपरि निष्ठयूतं, पतति च मुहुर्मुहुः । उत्पत्ति सुक्ष्म जीवानामुक्ता प्रज्ञापनादिके ॥३७॥ समये समयेऽसंख्य, जीवानां परिनाशनम् । अहिंसा परिपालाय, मुखबन्धं न तन्यताम् ॥३८॥ मुखबन्धो यतस्स्यात्तु, मुखपत्तिर्वचोमृषा। मुखे पतनशीला सा, मुखपत्तिनि गद्यते ॥३६॥ आचारङ्गस्य सूत्रस्य, रुद्र चाध्ययने तथा । श्वासोच्छ्रासस्य निष्कासे,जल्पनेक्ष्वेडकेतथा ॥४०॥ मुखं हस्तस्थ वस्त्रेण, पिधाय जल्पनं कुरु । कासादिकां क्रियां सर्वा ,कुर्याद्धस्तैःपिधाय च॥४१॥
१-परिधाय ।