________________
[६२]
योग
तया स्थविरया दृष्टः, घाटादि खादनोत्सुकः ॥२५॥ तत्काले मरुभाषायां, वधूटी बोधनाय च । दूहेति संज्ञकं गीतं, पठितं संश्रुतं तयां ॥२६॥ "सुन वहुवडमोरी, सासुरी एक बात । गंडकजी बढ़िया, घरमें कीनो ठाठ ॥ कुत्तो जी आया, खायो हांडो रो घाट । हामायिक मारे, थारे नहि को ठाय" ॥२७॥ इति प्रजल्प्य वध्वैतु, ज्ञापितं मनसि स्थितम् । पूर्णे सामायिके जाते, किं भक्ष्यामो वयंकिल ॥२८॥ एतादृक् कार्य कर्तव्ये,को लाभो भोविचिन्त्यताम् । संमूच्छिमप्रवृत्याभ, जायतेऽशुभयोगतः ॥२६॥ अतो ज्ञानोपयोगेन, कर्तव्यं सर्वदा जनैः। आत्मनोगुणसद्भावः, सावद्यत्यागतो भवेत् ॥३०॥ त्रितय योग शुद्धन, प्रमादपरित्यागतः । आत्म-संज्ञान-सद्र प-चरणचिन्तनं मुहुः ॥३१॥ येनकेन प्रकारेण, मलानां परिशोधनम् । गुणदोषाप्तिनाशौ च, सामायिक फलं महत् ॥३२॥ सामायिकस्य कर्तव्ये, क्रिया शुद्धिःप्रजायते ।