________________
[६४]
योगउपयोगेन धर्मोऽपि, क्रियातः कर्म कथ्यते । परिणामेन षन्धास्यात्, परमार्थेन बोध्यताम् ॥४२॥ मुखबंधे कुलिङ्गत्वं, कुलिङ्गाद्धर्मभ्रष्टता। कुलिङ्ग नैव कर्तव्यं, मुखबन्धनतां त्यजेत् ॥४३॥ पूर्वे क्षमासनं देयं, तत “इर्या" निगद्यताम् । तस्सुत्तरि मनथ्थादि,जल्पित्श ध्यानमाश्रयेत् ॥४४॥ नमस्काराश्च चत्वारः, ध्यातव्या ध्यानतः खलु । ततो लोगस्स पाठश्च, स्पष्ट रूपेण कथ्यते ॥४॥ ततः क्षमासनं पश्चामुखपत्तिप्रलेखनम् । प्रतिलिख्य च लाभाय,आदेशोद्वौ विमार्यताम् ॥४६॥ नमस्कारैक वक्तव्यं, "करेमिभंते" याचनम्। स्वयं वा गुरु सामीप्पे, सकृत्पाठस्य जल्पनम् ॥४७॥ आदेशाश्चैव चत्वारः, नमस्कारत्रयी ततः। अध्यात्म चिन्तनं पश्चात्स्थेयं सामायिकेसदा॥४॥ गमनागमशुद्धयर्थमि-पथिकमुच्यते । विना शुद्धिं समायस्य, फलं शुद्धन प्राप्यते ॥४६॥ पूर्व “करेमि भन्ते” च, कृत "इर्या" न युज्यते । “इ” गति विशुद्धाय,न कृतं गमनादिकम् ॥५०॥