________________
। -प्रदोप
[६५] विनागमनकर्तव्ये, यदीऱ्या प्रतिक्रम्यते । तदा खल्वनवस्थास्यादतः स्वान्ते विचार्य्यताम्॥५१॥ यदि शुद्धि नवै कृत्वा, करेमिभंत उच्यते । तदा शुद्धदशायाम्वै, ह्यशुद्धिश्चागता कुतः ॥५२॥ प्रागशुद्धौ समायंतु, क्रियते तन्न युक्तिमत् ।। पश्चादोर्या च कर्तव्या, युक्त नैतद्वचः खलु ॥५३॥ अतः शान्तस्वभावेन,मध्यस्थेन विचार्य्यताम् । लाभालाभौ समालोच्य,कर्तव्यं शुभमिच्छता ॥५४॥ रागद्वेषत्वविध्वंसः, शुद्धं सामायिकं मतम् । तदातु सफलं जन्म, प्राप्यते यच्च तादृशम् ॥५॥
द्वितीयशिक्षाव्रतम् देशावकाशिकाख्यञ्च, व्रतं तदधिकंमतम् । अन्येषांहि व्रतानाच, संक्षेपोऽत्र वितन्यते ॥५६॥ सर्व-व्रतेषु यस्त्यागः, कृतोऽपि स्थूल रूपतः । अत्राऽपि तस्यसंक्षेपः, क्रियतेलाभमिच्छता ॥५७॥ घटिका षोडशंयावत्स्थेयं, सामायिके च वै। सायं प्रायः प्रतिक्रान्तिः,मता देशावकाशिक ॥५८॥ एकाशनोपवासादि, प्रभृतिशक्तितस्तपः।