________________
[६६ ]
योगकर्तव्यं शुभभावेन, सर्व शास्त्रानुसारतः ॥५६॥ गृहीत्वोपाश्रये स्थेयं प्रत्याख्यानाद्यभिग्रहम् । सामायिकफलापेक्षा, फलाधिकविबोध्यताम्॥६०॥ बहुसंबरसद्भावः, सामायिकाच जायते । विनयादि गुणोद्भावाद, निर्जरा प्रचुरामता ॥१॥ अतः सर्व परित्यक्त्वा, तिथिपर्वादिकेषुच । देशावकाशिकाख्यंच, कर्तव्यं सर्वदा खलु ॥१२॥
तृतीय शिक्षाव्रतम् पूर्व व्रतेषु हेयानां, नियमः स्थूलतः कृतः। अत्रविशेषतस्तेषां, त्यागभावो विधीयते ॥६३। पुष्टिमात्मगुणानां च, धत्तेतत्पौषधंव्रतम् । निरुत्या कथ्यमानेऽपि, चिन्तनीयं मुहुर्मुहुः ॥१४॥ भावितः शुभभावेन, आत्माचैकादशेव्रते। ज्ञान दर्शन चारित्र-गुणानां पुष्टिता मता ॥६५॥ अष्टानां च कषायाणां, मलानां शोधनादतः। आत्मनि शमभावास्याद्,गुणवृद्धिस्ततोभवेत्॥६६॥ संवरःपौषधं त्रिंशद्, गुणःसामायिकान्मतः । महाफलस्य लाभाय, कर्त्तव्यं तादृशं व्रतम् ॥६७॥