________________
-प्रदीप
[६७] यदिमृत्युर्भवेत्तत्र, वैमानिकां गतिं विना। अन्यागतिने जायेत, शास्त्रमेतद्वियोध्यताम्॥६॥ उत्कृष्टादि जघन्यान्तं, तपोऽप्यत्र विधीयते । उत्कृष्ट उपवासस्स्यादेकासनं जघन्यकम् ॥६६॥ केवलिभिः समाख्यातं, पौषधन्तुचतुर्विधम् । आहार देह संस्कार, व्यापाराब्रह्मत्यागतः ॥७॥ अशनं पानखाद्यच, स्वाद्यमिति चतुर्विधम् । आहाराणांच सर्वेषां, त्यागादाहारपौषधम् ॥७॥ एकाशनादिकर्तव्ये, एकभक्तस्यहेयतः। देशतः पौषधं . ज्ञेयमशनमवलम्बतः ॥७२॥ वीतराग सपर्या च, कार्या पौषधकारिणा । पूजां विना च सद्भाव, वृद्धि! गृहमेधिनाम् ॥७३॥ अतोऽपि वीतरागस्य, पूजा कार्या च सर्वथा। यथा देवाधिदेवानां, नामतो दर्शनेऽधिका ॥७४॥ तत्राऽपि स्पर्शने वृद्धिः, जायते शुभभावतः। वृद्धयर्थं हि भावानां, देवपूजा विधीयताम् ॥७॥ देवाधिदेव पूजायाः, क्षणे स्नानंच युज्यते । तावच्च स्नानसंस्कारः,त्याज्योयावव्रतस्थितिमा७६॥