________________
[६८]
योग
सर्वथा देह संस्कार, त्योगतः सर्वपौषधम् । देशतस्त्यागभावेन, देशतोऽस्नानपौषधम् ॥७७॥ सर्वथा व्यापतित्यागे, सर्वव्यापारपौषधम् । देशतो व्याप्रति त्यागे,देशव्यापार पौषधम् ॥७८।। ब्रह्मचर्य दिवा रात्रौ, त्यागेन स्व-परस्त्रियः। ब्रह्मपौषधं मर्वं तत्, परस्त्रीत्यागिदेशत ॥७॥ चतुर्णा पौषधानांच, पालनं सर्वथा मतम् । पौषधव्रतमित्येवं, रूढिप्रधानतो मतम् ॥८॥ पौषधमुपवासोऽपि, आहारत्यागरूपत । यथाशक्त्या च कर्तव्यं, सवैदेश प्रभेदत ॥१॥ देशपौषधवक्तव्ये, बाधा काचिन्न लक्ष्यते अन्यथा वीरनिर्वाणे, युज्यन्ते न प्रदीपकाः ॥२॥ निर्वाणञ्च तदा रात्रौ, श्रावकैः पौषधस्थितैः। प्रयुज्यन्ते कथं दीपाः,श्राद्धः सावद्यहेयकैः ॥३॥ अतोऽत्र दीर्घया दृष्टया, विचार्यतां सुभावतः । चतुर्विधकृतं नैव, आहारत्यागरुपकम् ॥४॥
१-केवलपरस्त्री त्यागिनो गृहस्थस्य देशतोब्रह्मचर्यम् । १-सावद्यत्यागिभिः।