________________
-प्रदीप
[५६]
चतुर्थप्रकाशः
प्रथम शिक्षाव्रतम् गुणवत त्रयाणांच, तृतीयेहि निरूपणम् । चतुः शिक्षावतानाच, करोमि प्रतिपादनम् ॥१॥ समता सर्वभूतेषु, समता शत्रु मित्रयोः । शमः स्त्रैणेषुशस्येषु, स्वर्णेऽश्मनिमणौमृदि ॥२॥ सर्वथा देशतश्चैवं, शमनं रागद्वेषयोः । तस्याऽयः प्राप्तिर्यत्तु, समायः परिकीर्तितः ॥३॥ सामायिकं भवेन्नाम, प्रत्यये स्वार्थिकेठकि । अथवा त्यागता मोह, क्षयोपशमयोगतः ॥४॥ क्षायोपशमिकं तत्र, सामायिकंप्ररूपितम् । संयमिनाञ्च विज्ञयं, षष्टादिगुण भूमिके ॥५॥ अष्टानांच कषायाणां, क्षयोपशम योगतः। सामायिकंच विज्ञयं, देशतो गृहमेधिनाम् ॥६॥ द्वादशानां कषायाणां, क्षयोपशमभावतः । चारित्र परिणामोयः, सर्व सामायिकं मतम् ॥७॥ एतत्सराग चारित्रं, कथितं सर्वदर्शिभिः ।