________________
-प्रदीप
[५७]
आनयनायतेषाञ्च, दत्ताबुद्धिरनर्थदा ॥२४॥ पापोपदेशदातृत्व, फालिकुटालके तथा। पेषणी चुल्लिकेचैव, रथोदुखल मूशलम् ॥२४४॥ संस्कृत्य प्रविमुक्तानि, याचकदापनाय च । ज्ञयमनर्थमेतच्च, जातं कर्म समर्पणे ॥२४॥ तडागादिक संस्थाने, गालन रहिते जले । स्नानाद्य घोलनंचैव, पादानां धावनं तथा ॥२४६॥ अग्निदात्र्यादिहिसञ्च, दाक्षिण्याचप्रयच्छतः । अनर्थ दण्डनं तस्य, लगति नाऽत्रसंशयः ॥२४७॥ अष्टम्यादौ तिथौचैवं, खण्डनं पेषणं तथा । धार्मिकाचरणंनैतत्कार्यं नैव व्रतार्थिना ॥२४८॥ असंबद्ध प्रलापित्वं, प्रमादाचरणं तथा । निरर्थक जलादीनां, क्षेपणेऽनर्थ दण्डनम् ॥२४६॥ उपयोगेनतत्सर्व, दष्ट्वा भूमी वितन्यते । तत्रनाऽनर्थदण्डत्वं, चिन्तनीयंच सर्वदा ॥२५०॥ घू त व्यसन सेवित्वं, नाटक प्रेक्षणादिकम् । आक्रोश कारिवाणित्वं, यद्वतद्वा प्रजल्पनम् ॥२५॥ मात्सर्या धारणेनैवं, शापानांच प्रदानकम् ।