________________
'[५६]
योगते महापुरुषा ज्ञेया, महाप्रभावकाश्चते। साधम्मिकाय सर्वस्वं, दातारो दुर्लभाभुवि ॥२३॥ साधम्मिकस्य संबन्धश्चाधिकस्तु सहोदरात् । सः सम्बन्ध इहैव स्यात्साधर्मिको भवान्तरे ॥२३६॥ कामदेवादयो धन्याः, धन्याश्चसंप्रतिनृपाः । साधर्मिकं सुहृद्भावं, प्राणान्ते न त्यजन्तिते ॥२३७॥ वर्णितञ्च प्रसङ्गन, सप्तमेव्रतवर्णने । दर्शितो खलुमार्गोऽयं, नृपादिव्रतधारिणाम् ॥२३८॥
तृतीयगुणवतं ( अनर्थदण्डनिषेधवर्णनं ) शरीर ज्ञाति वर्गाय, यत्किञ्चिन्नोपयुज्यते । अनर्थ दण्डरूपंतत्, सर्व सवैश्च गीयते ॥२३॥ प्रयोजनं विनाऽनर्थदण्डेन किमुदण्डयते । अनर्थ कर्मबन्धश्च, क्रियते कथमात्मनि ॥२४०॥ हास्य खेलन सारूप्य, चेष्टाकौतुक कारिणी । शारीरिक कुचेष्टाच, सर्वानर्थकदण्डिका ॥२४१॥ कृष्यर्थ कर्षकेभ्यश्च, प्रदत्तं कृषिसाधनम् । शकटोदिकवाहाय, दत्तं तेभ्यः प्रमादतः ॥२४२।। व्यापारे पशुजातीनां, धान्यानाञ्च कुवस्तूनाम् ।