SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [४६] योगदोषाणां लोकनं सम्यक, प्रत्यक्षेण प्रतन्यते । अनेक जीव संहार, कारणं रात्रि भोजनम्॥१४॥ हीनाङ्गयाश्चाशनेनैव, बुद्धिर्नश्यति दूरतः। जलोदराय यूका तु,मक्षिकावान्तिकारणम् ॥१४६॥ कोलिकः कुष्ट रोगाणां, कारणं प्रणिगद्यते । कण्टकाद्य शनेनैव, विध्यतेतालु निश्चितम्॥१५०॥ गलेषु केशलग्नेन, स्वरभंगः प्रजायते । साक्षात्तेषांच दोषाणां, कारणं रात्रि भोजनम् १५१॥ परम्परा च दोषाणां, परिणामोऽति दुस्त्यजः । बुद्ध्यादीनां विनाशेन, सर्वस्वं परिणश्यति॥१५२॥ वैवाहुतिर्न च स्नानं, नश्राद्ध देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनंतु विशेषतः॥१५३॥ पंच विंशति भाराणां, दुग्धानां पायसं कृतम् । तत्र रुधिर बिन्दुश्च, प्रक्षिप्तो यदि केनचित् ॥१५४॥ तदा तत्पायसं सर्व, सर्वैश्च परित्यज्यते। . असृग्रूपंच तन्मत्वा, केनचिन्नैव खाद्यते ॥१५५॥ तमस्विन्यशनस्यैव, पाचने प्रविलोक्यताम् । अनेक सूक्ष्म जीवानां, पतने किमु प्रोच्यते ॥१५६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy