________________
[४४]
योगकुक्कुट वर्तकादीनां, हिंसक-प्राणिनां तथा ॥१३०॥ ग्रहणं धन वृर्ध्यर्थं, क्रियते धन लिप्सुभिः । यशोऽर्थ क्रियतेतद्धि,"असती-पोषणं" मतम्॥१३१॥ पञ्चेन्द्रियस्य जीवस्य, संहारो दृश्यते किल । ऐकद्वीन्द्रियकादीनां, जीवानान्तु कथैव का ॥१३२॥ उदर पूर्तिरन्येन, व्यापारेण प्रजायते। तदाप्राणान्त कालेऽपि, व्यापार किमु क्रियते॥१३३॥ केनापि यदि रूपेण, जीविका नैव जायते । तदामहापवादेऽपि, समयः प्रविलोक्यताम् ॥१३४॥ कोट्यादि धन सम्पत्ती, सत्यामपि विधीयते । तदामनसि ज्ञातव्यं, तृष्णाधिकह दिस्थितैः॥१३॥ येषां तुष्टिर्भवेन्नैव, ते महारम्भिणोमताः । मज्जादीनां प्रयोगस्तु, यंत्रेवस्त्र विधीयते ॥१३६॥ वस्त्रादिषु च लेपाय, मज्जादिकं प्रदीयते । एतादृक्पाप कर्तारो, धर्मात्मानः कथंनुते ॥१३७॥ पञ्चेन्द्रियस्य जीवस्य, बधान्मज्जादि जायते । तत्क्रीत्वा यंत्रकादिषु, विलेपनं विधीयते ॥१३८॥ तादृशः कर्मणः कर्ता, पापात्मा किं तरिष्यति ।