________________
-प्रदीप
[३६] शिरश्च तस्य छेत्स्यामि, समयो लभते यदा॥८६॥ छिनत्ति समयं प्राप्य, चोपस्थ हस्त नासिकाः। दुःखमतीव भुक्त्वा स, प्रयाति दुर्गतिन्ततः॥८॥ सधवा विधवा कन्या, वेश्या सर्वे परस्त्रियः। तासु कदापि नोगच्छेत्. सुखेच्छा हृदये यदि ॥८॥ धन्याः नराश्च ते ज्ञेयाः, परस्त्रीषु परां मुखाः। तस्यां दृष्टिं न क्षिप्ता ये,श्लाघनीयाः कथं न ते॥६॥ अभक्ष्यानन्त कायादि, द्विदलं रात्रि भोजनम् । मधमद्यादिकं सर्व, मांस संधानकादिकम् ॥१०॥ बह्वारम्भ-समुत्पन्नं, बहु पाप निवन्धनम् । एतत्सर्वं परित्याज्यम्,मनसाऽपिन प्रार्थयेत् ॥६॥ औषधार्थच जग्धंचेल्लध्वभक्ष्यादिकं जनैः। स्वामरत्वन्न कुर्वीत, किमर्थं परिषेव्यते ॥२॥ अल्पारम्भं च सर्वं यत्, भोक्तव्यं न कदाचन । तत्रापि संयमः कार्यः, इन्द्रियाणां नृपुंगवैः ॥१३॥ येषां नामाऽपि नोज्ञातं, स्वेनापरजनेन वा। मधुरस्स पदार्थोऽपि, भोक्तव्यो नहि कर्हि चित् ॥४॥ प्रवृत्तिर्यदि तत्रस्याद्भवेत्तस्याः फलं विषम् ।