________________
[१२]
योगसम्राडकवरस्तेषां, संजातो भक्तराट् सदा। धर्मोपदेशतां श्रुत्वा, कृतं कार्यमनेकधा ॥४७६॥ सूरीणामुपशेन, वर्षे षण्मासिकावधि । मांसाहारनिषेधश्च, अक्षरैः सर्वथा कृतः ॥४०॥ निर्दोषपशुपक्षीणाममारित्वं च घोषितम् । शत्रुजयादितीर्थानां, करस्तेन निषेधितः ॥४८१॥ पर्युषणादिने चैव, समस्त भारते खलु । मांसाहार निषेधश्च, कारितः सूरियोधतः ॥४८२॥ साधूनां विहृतौ विघ्नं दूरीकृतं च भारते । मूरिषु भक्तियोगेन, उपदेशप्रभावतः ॥४८३॥ जगद्गुरुपदं तेषामर्पितं भक्तिभावतः। तत्सभासु च नान्येन, सम्प्राप्त तादृशं पदम् ४८४ सर्वजनहितायैव, कार्य कृतमनेकशः। तत्सर्व परिदृष्टव्यं, सूरीश्वराख्यग्रन्थके ॥४८॥ शासनदीपकेनैव, विद्याविजयबन्धुना। लिखितं स प्रमाणेन, सर्वदेशीय युक्तितः ॥४८६॥
१ सूरीश्वर अने सम्राट् ग्रन्थतः।