________________
[७०.]
योग
wimmiwwwmmammmmm
wwwwwwww
सुबा दफरखानानां खम्भातपुरवासिनाम् । प्रतिबोधनकर्तारः, सूरयस्ते महाशयाः ॥४४३॥ अद्भुतवादशक्तिं च, दृष्ट्वा तैर्यवनैस्तदा । वादिगोकुलषण्डाख्यं, पदं तत्र समर्पितम् ॥४४४॥ दक्षिणविज्ञलोकैश्च, कालीसरस्वतीनामकम् । पदं दत्तं गुरुभ्पश्च, सभासु सर्वसन्निधौ ॥४४॥ शिरोहिराजद्वारा च उपदेशप्रदानतः। अमारिपटहोद्घोषः, दापितः स्वीय राजसु ॥४४६॥ एवमनेककार्याणां, कर्तृणां च प्रतापिनाम् । सूरीणां हि गुणानां वै स्तुतिं कर्तुं न शक्यते ॥ तत्पट्ट शोभयामासुः, रत्नशेखसूरयः । श्राद्धविध्यादि शास्त्राणां, कर्त्तारो जैनशासने ॥४४८ दफरखानपर्षद्यां, बांबी प्रमुखवादिभिः । सम्मील्य गुरुदेवानां, कालीसरस्वतीपदम् ॥४४६॥ दत्तं सद्भावपूर्वेण, सहर्षेणैव तत्क्षणे । स्वप्रभावश्च तत्रापि, सूरिभिः परिदर्शितः ॥४५०॥ श्राद्धप्रतिक्रमस्यैव, वृत्तिश्च रचिता शुभा। श्राद्धविधीय ग्रन्थस्य, वृत्तिश्च विधिकौमुदी ॥४५१