________________
-प्रदीप
[७७]
-rrrrrrrrrrrrrr
झांझणाख्य कुमाराणां, सूरयः प्रतिबोधकाः। तदुपदेशेन मंत्री च, चतुरशीति मन्दिरम् ॥४३५॥ अनेकपुस्तकागारान्, करोति भक्तिभावतः ।। प्रतिभाशालिनस्ते च, जैनशासनवर्धकाः ॥४३६॥ सोमप्रभाख्य सरिश्च, तत्प परिराजते । सोमतिलकसूरिश्च, तत्प च समागतः ॥४३७॥ तत्प भूषयामासुः, देवसुन्दरसूरयः। अनेकग्रन्थकर्तारः, अनेकराजबोधकाः ॥४३८॥ सोमसुन्दरसूरिश्च, जयतु पृथिवीतले । देवसुन्दरसूरीणां, पट्टे सोऽपि समागतः ॥४३६॥ मुनिसुन्दरनामानः, सूग्यो वीरशासने । तत्प च समायाताः, धर्मवृद्धिकराश्चते ॥४४०॥ अध्यात्मकल्पद्रौमादिग्रन्थानां कारकाः खलु । सहस्रावधिकर्तारः, महाप्रतापशालिनः ॥४४१॥ मुजफराख्य म्लेच्छानां, गूर्जरे च निवासिनाम् । उपदेशं विधायैव, धर्मप्रभावदशिनः ॥४४२॥
१- अवधान ।