________________
[७०२]
योगकुमारपालभूपालबोधकागुरवश्च ते । अष्टादशसु देशेषु, अमारिपटघोषणम् ॥३०॥ कारितमुपदेशेन, सूरिणा भूपतेः खलु । जन्मसफलता राज्ञां, कारिता सूरिणा तदा ॥३६१ अपूर्वविज्ञता तेषामपूर्वबुद्धिकौशलम् । अपूर्वा तर्कशक्तिश्च, सर्वापूर्व च सूरिषु ॥३६२॥ व्याकरणं च लिङ्गानुशासने नैव संयुतम् । पादलक्षप्रमाणं च, श्लोकानां तत्र वर्तते ॥३६३॥ काव्यानुशासनं चैव, छन्दोऽनुशासनं तथा । वादानुशासनं तैश्च, स्वोपज्ञं च विनिर्मितम् ३६४ न्याये प्रमाणमीमांसा, सटीका तैश्च निर्मिता। अनेककाव्यग्रन्थाश्च, रचिता सूरिभिः खलु ॥३६॥ प्रौढिमयोगशास्त्रं च, सटीकं वर्तते खलु । वीतरागमहास्तोत्रं, जैनगीतास्वरूपकम् ॥३६६॥ सार्धत्रिकोटिश्लोकानां, निर्माणं जैनशासने । तैरेव कारितं बुध्या, सर्वाश्चर्यविधायकम् ॥३६॥ नैकमन्दिरनिर्माणं, प्रतिष्ठाकरणं तथा । अनेकतीर्थयात्रा च, संघद्वारा कृता खलु ॥३६॥