________________
-प्रदीप
[७०३] सिद्धाचलमहासंघ, कुमारपालभूभुजैः । अतीव भक्तियुक्तन, निष्कासितश्च भावतः ॥३६॥ कलिकालीय सर्वज्ञाः जयन्तु ते सूरिवराः । तेषां स्मरणमात्रेण, गलन्ति पापपङ्कजाः ॥४०॥ प्रसङ्गतश्च सम्प्रोक्तं, वादिवैतालकादीनाम् । संक्षेपेण चरित्रं च, स्वपरज्ञानहेतवे ॥४०॥ देवसूरिप्रभूणां च, अष्टात्रिंशतिपट्टके । सर्वदेवाख्य सूरिश्च, तत्पट्टे च द्वितीयके ॥४०२॥ यशोभद्राख्य सूरिश्च, तत्प परिराजते । मुनिचन्द्राख्य सूरिश्च, तत्पपरिवर्धकः ॥४०३॥ अजितदेवस रिश्च, मुनिचन्द्रान्वये खलु । विजयसिंहाख्य सूरिश्च, अजितदेवपट्टके ॥४०४॥ सोमप्रभाख्य सूरिश्च, तत्पपरिदीपकः । अनुक्रमेण ते ज्ञेयाः, सूरयो वटगच्छके ॥४०५॥ षष्ठं निर्ग्रन्धसाधूनां, तपोगच्छाभिधानकम् । कथं केन च सम्प्राप्त, तत्स्वरूपं निगद्यते ॥४०६॥ सोमप्रभाख्य सूरीणां, मणिरत्नाख्य सूरयः । लघुभ्रातृत्वरूपेण, प्रसिद्धा जैनशासने ॥४०७॥