________________
-प्रदीप
[७०१] शुद्धप्रभावसयुक्ता, जयतु जैनशासने ॥३८२॥ वादिदेव परिचय । - महानैयायिकास्ते च, शासने प्रौढतार्किकाः चतुरशीतिसाहस्रश्लोकप्रमाणतायुतः ॥३८३॥ रत्नाकरान्तस्याद्वादादिग्रन्थस्तैश्च निर्मितः । गौर्जरेश्वरसिद्धराजस्तेषां भक्तराट् खलु ॥३८४॥ तत्सभायां च नग्नाटाः, कुमुदचन्द्रवादिनः । वादे जित्वा च सद्यत्तया, जयध्वजः प्रवर्तितः ३८५ सांख्यदर्शनकाराणां, वादिनां तस्य संसदि । जित्वा च धर्मवादेन, वादिसिंहपदं तथा ॥३८६॥ सम्प्राप्त सूरिभिस्तैश्च, जैनधर्मः प्रवर्धितः । जैनशासनशोभायाः कारकाश्च जयन्तु ते ॥३८॥ कलिकालसर्वज्ञहेमचन्द्रपरिचयः - सम्पूर्णे भारते तेषां, यशोगानं प्रवर्तते । सर्वकविवरेन्द्र'षु, प्राधान्यं तेषु वर्तते ॥३८॥ सर्वेषां ग्रन्धकर्तृणां प्राधान्यं तेषु सर्वदा । व्याख्यानशालिनां मध्ये, मुख्यव्याख्यानकारकाः ॥