________________
[...]
योगविशेषावश्यके सूत्रे, महट्टीका विनिर्मिता।। अष्टाविंशतिसाहस्रश्लोकप्रमाणसंयुता ॥३७४॥ गम्भीरार्थेन युक्ता सा, नैकवादसमन्विता । गणधरादिवादाश्च, तत्रैव चिन्तिता खलु ॥३७॥ अजयमेरुराजाऽपि, व्याख्यानं श्रोतुमिच्छया। प्रत्यहं देशनायां च, आगच्छति च भावतः ।३७६ भुवनपालराजेन, सूरीणामुपदेशतः । जैनमन्दिरपूजाय, आगतानां करो नहि ॥३७७॥ सर्वथा करमुक्ताश्च, कृतास्तेनैव श्रावकाः । सूरिव्याख्याप्रभावेन, जातो धर्मे च रागवान् ३७८ सौराष्ट्रराजखेंगारः, संजातः सूरिभक्तराट् ॥ शाकम्भरीयराजेन, पृथ्वीपालेन तत्क्षणे ॥३७६॥ सरीणामुपदेशेन, जैनधर्मश्च स्वीकृतः। रणथम्भोरग्रामे च, कारितं जैनमन्दिरम् ॥३८०॥ सिद्धराजादि राजापि, व्याख्यानश्रवणाय वै । आगच्छति गुरूणां च , नैकटे नैकशः खलु ॥३८१ निर्माता नैकग्रन्थानां, जेता च नैकवादिनाम् ।
१ सिद्धराज जयसिंह ।
.
.
..