________________
-प्रदीप
[६६६]
गुरुषु शुद्धचारित्रमुत्कृष्टं च तपस्तथा ॥३६॥ दृष्ट्वा तेनैव सूरीणां, मलधारिपदार्पणम् । कृतं प्रसन्नरूपेण, गुणेषु पक्षपाततः । ३६६॥ कुल्पाकतीर्थयात्रां च, कृत्वैलचपुरे वरे । गत्वा श्रीपालराजस्य, प्रतिवोधनता कृता ॥३६७॥ मुक्तागिर्याख्य तीर्थस्य, कारिता तत्र स्थापना । सिरपुरेऽन्तरिक्षस्य, पार्श्वनाथप्रभोस्तथा ॥३६८॥ प्रतिष्ठाविधियोगेन, सरिणा तेन कारिता । परमजैनधर्मत्वं, प्रापितं तन्नृपे तदा ॥३६६॥ मुक्तागिर्याख्य तीर्थं च, श्वेताम्बरीय सूरिभिः। स्थापितं हि ततो नैव, नग्नाटत्वं च तत्र वै ॥३७०॥ श्वेताम्वरीय श्राद्धानां, तत्र वसत्यभावतः। दिगम्बरीय-सत्ता च, संजाता तत्र तीर्थके ॥३७१॥ मूलनायकमूर्तिश्च, श्वेताम्बरत्व दर्शिका । अद्यापि विद्यते तत्र, गत्वा च दृश्यतां खलु ॥३७२।
मलधारिहेमचन्द्रपरिचयः। अभयदेवसरीणां, मलधार्यभिधानताम् । मुशिष्या हेमचन्द्राश्च, प्रखरवादिनस्तथा ॥३७३॥