________________
[[2]
योग
तस्य सेनापतिं चैव, प्रतिबोध्यैव तत्क्षणे । दवा भागवत दीक्षामात्मकल्याणकारितम् ३०४ सूरीणामुपदेशेन, आमराजेन भावतः । सिद्धाचलादि तीर्थानां सङ्घो निष्कासितो महान् ॥ इत्याद्यनेककार्याणि कृतानि सूरिभिः खलु । जैनधर्मप्रभावश्च, संजातो गुरुयोगतः ॥ ३०६ ॥ मानतु गाख्यसूरीणां, पह च वीरसूरयः । यथार्थनामयुक्तास्ते, शासनवृद्धिकारकाः ॥ ३०७ ॥ सूरयो जयदेवाख्याः, तत्प शुभचिन्तकाः । स्वीय शक्त्यनुसारेण, जैनधर्मप्रभावकाः ॥ ३०८ ॥ देवानन्दाख्य सुरिश्च तत्पह परिवर्धकः । शुद्धा क्रियानुरागेण, रक्तं च स्वीयमानसम् ॥ ३०६ ॥ विक्रमसूरयो ज्ञेयाः, तत्पट्ट परिदीवकाः । जैन सिद्धान्तज्ञातारः, स्वपरोन्नतिकारकाः ॥ ३१० ततो नृसिंहसरीणां परिचयो विशेषतः । कार्यते धर्मयोगेन स्वपरोन्नति हेतवे ॥ ३९९ ॥ स्वपरशास्त्रज्ञातारः; महाविज्ञाश्च ते मताः । नरसिंहपुरे यक्षस्योपदेशप्रदाः खलु ॥ ३१२॥
,