________________
[ ६६१]
ज्ञानचारित्रयोगेन, आचार्यत्वे नियोजिताः । संजाता बप्पभट्टू याख्याः, सूग्यो जैनशासने २६६ प्रत्यहं श्लोकसाहस्य, सूरिकण्ठेषु जायते । तादृशशक्तिसामर्थ्यमन्यत्रनैव विद्यते ॥ २६७॥ गोपगिरिनृपाणां च, उपदेशप्रभावतः । प्रतिबोधनकार्यं च सूरिभिश्च कृतं तदा ॥ २६८|| आमराजेन तत्काले, विशालं खलु मन्दिरम् । निर्मापितं च तत्रापि, प्रतिमा सुमनोहरा ॥ २६६॥ सुवर्णमयमूर्त्तिश्च, महामूल्येन कारिता ।
-
-प्रदीप
प्रतिष्ठिता शुभे लग्न, सूरिभिः शुभमन्त्रतः ॥३०० | महावीरप्रभूणां च सा मूर्त्तिः परिज्ञायताम् । आमराजस्य भाग्येन, जातं सुन्दरमन्दिरम् । ३०१ | लक्षणावर्तग्रामस्य, नृपस्य प्रतिबोधकाः । धर्मराजं शुभे धर्मे, संस्थाप्य स दृढी कृतः ॥ ३०२ ॥ वर्धन कुञ्जरादीनां योद्धानां परिजीवकाः । वादिकुञ्जरसिंहस्य, उपाधिर्मीलितस्तदा ॥ ३०३ ॥
१ लक्ष्मणावर्त्त