________________
[६ ]
योगतत्प मानतुझाख्याः, सूरयो धर्मवर्धकाः । विशेषरूपतस्तेषां, स्वरूपं कथ्यते मया ॥२८॥ धारानगरवास्तव्यः वृद्धभोजाभिधानकः । तन्नृपस्य सभायां च, भक्तामरस्य कारकाः २८८॥ नकतालकदानेन, सूरीणां च नियन्त्रितः । एकैकश्लोक पाठेन, एकतालकत्रोटनम् ॥२८॥ सम्पूर्णस्तोत्रसंजाते, सर्वतालकत्रोटनम् । सूरिभिश्च कृतं तत्र, महाश्चर्यप्रदर्शकम् ॥२६॥ तादृशीं गुरुशक्तिं च, दृष्ट्वा नृपश्चमत्कृतः । जैनधर्मप्रभावोऽपि, तत्सभासु प्रजायते ॥२६॥ गुरूपदेशलाभेन, प्रभाव: प्रसूतो बह। प्रभावशालिनस्ते च, सूरयो जगती तले ॥२६२॥ बप्पभद्विगुरूणां च, स्वरूपं लेशमात्रतः। प्रसङ्गतो निगद्यत, स्वकीय ज्ञानहेतवे ॥२६३॥ पाञ्चालदेशवास्तव्य, सूरपालनृपस्य च । पुत्रास्ते सूरयो ज्ञेया, जगदुद्योतकारकाः ॥२६४॥ लघुवयसि दीक्षा च, गृहीता शुद्धभावतः। सिद्धसेनाख्य सूरीणां, पार्वे च मोढगच्छके २६५