________________
- प्रदीप
[ ६३ ]
तं प्रतिबोध्य तस्माच, मांसाहारस्य भक्षणम् । त्याजितं सूरिभिश्चैव, स्वप्रभावः प्रदर्शितः । ३१३॥ क्षोमाणानामधेयं च, राजकुलं स्वशक्तितः । प्रतिबोध्यैव धर्मेषु, दृढीकृतं च सरिभिः ॥ ३१४॥ तद्वशीय समुद्राख्य, कुमारं प्रतिबोध्य च । दीक्षां भगवतीं दत्वा, कल्याणं कारितं च तैः ३१५ समुद्रसूरयः पश्चात्ते जाता भाग्ययोगतः । वादे दिगम्बरं जित्वा, स्वशक्तिपरिदर्शकाः ॥ ३१६ नागहृदीय तीर्थं च ततश्च स्वायती कृतम् । श्वेताम्बरीय संघस्य, विजयः कारितश्च तैः । ३१७ महाप्रभावसयुक्ताः जैनशासनदीपकाः । आचार्य नरसिंहाख्याः, जयन्तु जगती तले ॥ ३१८ समुद्रसूरयो ज्ञेयाः, धर्मोन्नति प्रभावकाः । तत्पट्टे शोभमानास्ते, जगदानन्ददायकाः ॥ ३१६ ॥ तत्पह भूषयामासुः, मानदेवाख्य सूरयः । शासनभक्तिकर्त्तारः, वादी भसिंहसादृशाः । ३२० ॥ विबुधप्रभसूरीन्द्राः तत्पह भूषयन्ति वै । अनेक शास्त्रज्ञातारः, भव्यानां प्रतिबोधकाः । ३२१ ॥