________________
[६८४]
योग
प्रचरधान्यसम्प्राप्त, सुकालः परिजायते । नागेन्द्रचन्द्रनिर्वृत्तिविधाधरैः सुतैः सह ॥२३॥ जिनदत्तोहि चेश्वर्या, प्रेरितो वृतमात्तवान् । पुत्रचतुष्कनाम्ना च, भिन्नाः शाखाश्च निसृताः ॥ चन्द्रनाम्ना च तद् गच्छः, शाखारूपेण जायते। नागेन्द्रणव नागेन्द्रः, चन्द्रेण चन्द्रगच्छकः ॥२३॥ निर्वतिनामरूपेण, निर्वृतिनामगच्छकः । विद्याधरेण तद्रूपः, एवं च परिज्ञायताम् ॥२३॥ वनसेनमहाभागपट्टे च चन्द्रसूरयः । प्रभावशालिनस्तेऽपि, ज्ञातव्या जैनशासने ॥२३६॥ प्रभावशालिसाधूनां, सिद्धसेनदिवाकराः। ज्ञातव्याश्च महाभागाः, विक्रमप्रतिबोधकाः ॥२४० वृद्धवादिगुरूणां च, पार्वे कुमुदचन्द्रकैः । महाविज्ञः समागत्य, स्वकल्याणं च साधितम् ॥ बङ्गदेशीय कुर्मारराजं च देशनादिना । जैनं कृत्वा च सुश्राद्धः, कारितो जैनशासने ॥२४२
१.--प्रभावशालि साधूनां मध्ये ।