________________
| ६८५ ]
परमार्हतभक्तोऽपि, संजातो गुरुयोगतः । विहृत्यच ततः स्थानादवन्त्यां गुरवो गताः ॥ २४३ अवन्तिपार्श्वनाथस्य, अवन्तीनगरीयके । मूर्त्तिर्ब्राह्मणलोकैश्च, स्वाधीनी कृत्य सर्वथा ॥ २४४ जैननामापमानं च कृतं तादृशकार्यतः ।
-प्रदीप
तत्र गत्वा महाकालमन्दिरे च कृता स्थितिः ॥ कल्याणमन्दिराख्यं च स्तोत्रं सुरचितं तदा । तत्स्तोत्रपठने यच्च, संजातं तन्निशम्यताम् ॥२४६ पञ्चदशमश्लोकस्य, उच्चारणं यदा भवेत् । तदा तच्छिवलिङ्ग च, स्फुटितं गुरुमंत्रतः ॥२४७॥ तन्मध्ये पार्श्वनाथस्य, प्रतिमा निःसृता शुभा । तद्दृष्ट्वा सर्वलोकाश्च कुर्वन्ति शुद्धभावनाम् २४८ महाश्चर्यं महाश्चर्य, जगति गुरुणा कृतम् । विक्रमादित्य राजापि, आगतो गुरुसन्निधौ ॥२४६ स्तुतिं च गुरुदेवानां करोति भक्तिभावतः । विक्रमप्रतिबोधाय, प्रारब्धा देशना खलु ॥ २५० ॥ गुरूपदेशयोगेन, विशुद्धशक्तियोगतः ।
प्रतिबोध्यैव राजानं श्रावकः सूरिणा कृतः || २५१॥