________________
-प्रदीप
[६८३] सूरिर्ज्ञानेन विज्ञाय, वनसेनं हि तत्क्षणे । आहूय कथितं तेन, लक्षमूल्योदनात्खलु ॥२२६॥ त्वं भिक्षां च यदाऽप्नुयाः, तदुत्तरदिने च भोः । सुभिक्षं तु त्वया ज्ञेयमन्यथा न कदाचन ॥२२७॥ पूर्वं च दशमं तस्माद् व्युच्छिन्नं वनस्वामितः । वज्रसेन महाभागः, तदनु विहृतिः कृता ॥२२८॥ सोपारकपुरे तस्माच्छिष्येण सह चागतः। जिनदत्ताख्य भव्यानां, भिक्षार्थ गतवान् गृहे २२६ तत्पत्न्याश्चेश्वरी नाम्न्याः क्रीतं च लक्ष्यमूल्यकम्। अन्ने तस्मिंश्च संक्षिप्तं, विषं हालाहलं तदा २३० विचारितं स्वस्वान्ते च अन्नं धनं न विद्यते । आगतेऽहि च भिक्षूणां, भिक्षा दास्ये कथं खल २३१ दर्शयामि कथं स्वास्यं, विचार्य विषवत्कृतम् । तस्या विशुद्धभावोऽपि, ज्ञातो हि गुरुणा तदा २३२ आगत्य सूरिणा प्रोक्तं, नैवं कार्य कदाचन । श्वः काले भरिपोत तद्, आगच्छति च धान्यकं २३३ तच्छ्रुत्वा च सहर्षेण, जिनदत्तेन शोचितम् । यदि सत्यं भवेत्तहि, आनन्दः परिजायते ॥२३४॥