SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ योगवजस्वाम्याख्य सूरीन्द्राः, अतिप्रभावशालिनः । विहारानुक्रमेणैव, आगतास्तेऽपि तत्र वै ॥२१७॥ विज्ञप्ति श्रेष्ठिनां श्रुत्वा, महालाभाय ते तथा । स्वीकृत्यैव प्रतिष्ठायाः, कार्य प्रारब्धकं खलु ॥२१८ कपर्दीयक्षविघ्नेन, मूलनायकस्वामिनाम् । स्थैर्य च नैव जायेत, उत्थापनं पुनः पुनः ॥२१॥ महाविद्याबलेनैव, ज्ञाता तस्यैव विघ्नता । यक्षं सन्तोष्य तत्रैवाधिष्ठातृत्वं कृतं तदा ॥२२॥ तन्मूर्तिः स्थापिता तत्र, तत्तीर्थे गुरुणा खलु । आधिपत्यं च तस्यैव, शत्रुजये विराजते ॥२२१॥ . महाकार्य विधायैव, गुरुभिर्विहृतिः कृता । तीर्थोद्धारप्रतिष्ठा च, जाता सद्गुरुयोगतः ॥२२२ अन्यदा गरुदेवानां, कफोद्रेकप्रभावतः । भोजनादनुस्वाद्यर्थ, शुण्ठीग्रंथिश्च रक्षिता ॥२२३ कर्णे च स्थापिता साऽपि, विस्मृता वृद्धभावतः। प्रतिक्रमणकाले च, पतिता कर्णतस्तदा ॥२२४॥ आसनमृत्युतां ज्ञात्वा, सूरिणा च प्रमादतः । द्वादशवर्षपर्यन्तं, दुर्भिक्षस्य प्रवेशनम् ॥२२५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy