________________
-प्रदीप
[६८] अतीव भक्तिपूर्वेण, अतीवानन्दयोगतः । प्रभुभक्तिं प्रकुर्वन्ति, सर्वे च तत्र श्रावकाः ॥२०८ विशुद्धपुष्पगन्धेन, शुद्धसुगन्धिवस्तुना । जिनेन्द्रपूजनं दृष्ट्वा, राज्ञा मनसि शोचितम् ॥२०६ सर्व गुरुप्रसादेन, जैनसंघेन कृतं तथा । तादृशा गुरवो नैव, अस्माकं दर्शने खलु ॥२१॥ गुरुदर्शनकार्याय, राजा तत्र समागतः। गुरूणां देशनां श्रुत्वा, शुद्धकल्याणकारिणीम् ॥२११ सम्यग्रत्नं परिप्राप्य, जैनधर्मप्रभावनाम् । करोति चातिभावेन, दृढधर्मपरायणः ॥२१२॥ अहो गुरुमहात्म्यं तद्, बोद्धं च प्रतिषोध्य वै। तद्देशे जैनधर्मत्वं, स्थापितं गरुणा तदा ॥२१३॥ शत्रुजये महातीर्थे, श्रेष्टिजावडभावडैः । विक्रमशतके पूर्णे, अष्टवर्षात्तरे तथा ॥२१४॥ तत्तीर्थोद्धृतिकार्य च, कृतं तै: श्रेष्टिभिः किल । प्रतिष्ठायाश्च कर्तव्ये, गुरवःप्रभावशालिनः ॥२१५ विद्यया परिपूर्णाश्च, तत्कार्य प्राथिताश्च तैः । तेषां च भाग्ययोगेन, मीलिता दशपूर्विणः ॥२१६