________________
[६७८]
योगपुत्रव्यामोहकार्याय, सुनन्दा सुखभक्षिकाम् । अनेकविधता युक्तां, तत्र गत्वा च ढोकते ॥१८॥ धनगिरिमहाभागः, साधु चिह्न रजोहरम् । तत्समीपे च मुत्तवा वै, प्रोक्तं द्वाभ्यां च तत्क्षणे ॥ तुभ्यं यद्रोचते तद्धि, गृह्यतां भाग्यसेवध । मोहसाधनमिष्टान्नं, त्यक्त्वा रजोहरं धृतम् ॥१८३ ततो मातापि वैराग्याद्दीक्षां गृहाति भावतः। यदाष्टवार्षिको जातः, तदा जम्भकदेवकः ॥१८४॥ पूर्वभवीय मित्रोऽसौ, परीक्षाये तदागतः । उज्जयिन्याश्च मार्गेषु, वृष्टिनिवृत्तिकालिके ॥१८॥ कुष्माण्डशुद्धभिक्षां च, दीयमानां न गृह्णीयात् । अनिमेषत्व चिह्नन, जानाति देवपिण्डकम् ॥१८६॥ मह्यौंन कल्पते तद्धि, कथितं तेन तत्क्षणे। तुष्टदेवेन तत्काले, दत्ता वैक्रियलब्धिका ॥१८॥ द्वितीय समये भिक्षा, घृतपुराभिधानिका । दीयमानापि साऽशुद्धा, देवपिण्डस्वरूपिका ॥१८॥ तद्योग्यां च मत्वावै तुष्ट जम्भकदेवतः। सम्प्राप्ता च महाविद्या, आकाशगामिनी तदा ॥१८६