________________
[६७०
-प्रदीप आर्यदिन्नस्य पट्टेषु, आर्यसिंहगिरिस्तथा । कौशिकगौत्रसम्पन्नः, जातिस्मरणवान् खलु ॥१७२ तत्पी गौतमाभिख्य, गोत्रे सरिपुरन्दरः। वनस्वामिमहासाधूः, सम्भूतो लल्धिभाक् तथा ॥ आर्यधनगिरेः पुत्रः, सुनन्दाकुक्षिसम्भवः । तुम्बवनाख्य ग्रामस्था, जातो धर्मपरायणः ॥१७॥ स्वोत्पत्तिसमये श्रुत्वा, पितृदीक्षा मनोहराम् । संजात जातिस्मृत्या च, मातुरुद्वगहेतवे ॥१७॥ रोदति सततं तत्र, षण्मासावधिकं तथा । भिक्षायै चैकदा साधुः धनगिरिः समागतः ॥१७६ तं दृष्ट्वा च तया प्रोक्तं, गृह्यतां स्वीय पुत्रकम् । धनगिरिमहाभागः, गृहीतः सोऽपि तत्क्षणे ॥१७७ महाभारत्व योगेन, दत्तं वजाभिधानकम् । पालनस्थः स बालोऽपि, जातश्चैकादशांगवित् १७८ यदा त्रिवार्षिको जातः, रूपलावण्यसंयुतः । तं दृष्ट्वा स्वीय मातृणां, मोहश्च वर्धते खलु ॥ मात्रा राजसभां गत्वा, पुत्राय प्रार्थना कृता। धनगिरिः सुनन्दा च, आगतौ राजमन्दिरे ॥१८॥