________________
योग
विनाशकालयोगेन विपरोता मतिभवेत् । दुर्बुद्धिगई भिल्लेन, स्वान्ते नैव विचारितम् ॥१६३ साध्वी शीलसुरक्षायै, आचार्यैश्च विचारितम् । विनाऽन्यराजसामर्थ्यात्साव्याश्च मोचनं न हि ॥ शकराजं समानीय, भीषणयुद्धमादृतम् । गर्दभिल्लसमुच्छेद्य, साध्वी शुद्धा च मोचिता १६५ बलभानुमित्रकानां च, तद्राज्यं हि समर्पितम् । कालिकाचार्यषोधेन, ताभ्यां धर्मश्च स्वीकृतः ॥१६६ तदाग्रहाच्च तत्रैव, चातुर्मासी कृता तदा । मन्त्रिणां मतिमांद्य न, प्रतिष्ठानपुरे गतः ॥१६७॥ तत्रस्य नृपसामीप्ये, जैनधर्मोपदेशनम् । प्रभावशालिबोधेन, प्रबुद्धः सोऽपि भूपतिः ॥१६॥ राजाग्रहनियोगेन, चतुर्थी दिवसे खलु । पञ्चमीतः समानीय, पर्वं तदा समाहतम् ॥१६॥ अद्यावधि च तत्पर्व, प्रचलति च भारते । तदीयाज्ञा शिरोधार्य, स्वीकृतिश्च कृता समैः १७० धन्यास्ते कालिकाचार्याः, धर्मोन्नतेश्च कारकाः । साध्वीशीलस्य रक्षाय, स्वशक्तिपरिस्फोटिता ॥१७१