________________
-प्रदीप
[६७३] आर्यमहागिरेः काले, आर्यसुहस्तिनस्तथा । द्वादशवार्षिकः कालः, अपतच्च भयङ्करः ॥१३६॥ तत्काले नैक संख्याकैः, साधुभिर्भोज्य त्यागतः। अनशनं च सम्प्राप्य, स्वर्गे गताश्च तत्क्षणे ॥१३७ दुष्कालस्य प्रभावेन, आगमज्ञानहासता । कलिंगाधिपराज्ञा च, खारवेलेन तत्क्षणे ॥१३८॥ जैनस्थविरसाधूनां, कुमारीपर्वते खलु । एकत्रीकरणायैव, आह्रानं च कृतं तदा ॥१३६॥ आर्यबलिस्सहश्चैव, बोधिलिङ्गनक्षत्रको । देवाचार्यश्च धर्मश्च, प्रभृत्यनेक साधवः ॥१४॥ सुस्थितप्रतिबुद्धौ च, उमास्वातिस्तथा परः। श्यामाचार्याश्च तत्रैव, आगता स्थविरास्तथा ॥१४१ आर्यपोइणिकाः साध्व्यः, समिती चागताः खलु । कलिङ्गभिक्षुराजश्च, पुष्यमित्रादिकाः किल ॥१४२॥ चतुर्विधकसंघस्य, आगतिस्तत्र जायते । कलिङ्गराजविज्ञप्त्या, साधसाव्य अनेकशः ॥१४३ मगधमथुरावङ्ग, देशे धर्मप्रचारतः । आगमज्ञ मुनीन्द्रश्च, आगमसंग्रहः कृतः ॥१४॥